अन्नपाक पु० ६ त० । अन्नस्य ब्रीह्यादेर्लौकिकदहनेन विक्लित्त्यनुकूलव्यापाररूपे पचने, भुक्तान्नस्य जठरानलेन रस- रक्तादिरूपालरापादने च तत्र लौकिकपाकः चूल्ल्युपरि- स्थापनपूर्व्वाधःसन्तापनादिर्लोकसिद्धः । जाठरपाको यथा पदार्थादर्शे योगार्ण्णवे । “आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा संप्रविश्यान्नमध्यन्तु पृथक् किट्टं पृथग्जलम् । अग्नेरूर्द्ध्वं जलं स्थाप्य तदन्नं च जलोपरि । जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः । वायुना ध्मायमानो- ऽग्निरत्युष्णं कुरुते जलम् । अन्नं तदुष्णतोयेन सम- न्तात् पच्यते पुनः । द्विधा भवति तत् पक्वं पृथक् किट्टं पृथग्जलम् । रसेन तेन ता नाडीः प्राणः पूरयते पुनः । प्रतर्पयन्ति सम्पूर्ण्णास्ताश्च देहं समन्ततः । रसः स नाडी- मध्यस्थः शरीरे चोष्मणा भृशम् । पच्यते पच्यमानस्तु भवेत् पाकद्वयं पुनः । चर्म्मावेष्ट्य समन्ताच्च रुधिरञ्च प्रजायते” इति त्वगादिधातुपाकस्तु ४९ पृष्ठे उक्तः ।
📄 मूल मुद्रित पृष्ठ (0212,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।