अन्वयबोध पु० एकपदार्थे धर्म्मिणि अपरपदार्थस्य अन्वयं सम्बन्धं बोधयति आकाङ्क्षादिना, बुध--णिच्--अण् उप० स० । शब्दज्ञानजन्ये शाब्दबोधरूपानुभवभेदे । स च बोधः न प्रत्यक्षं नाप्यनुमेति नैयायिकाः । किन्तु ततोविलक्षण- [] कारणकत्वाद्भिन्न इति यथोक्तं प्रकाशिकायाम् । “शब्दो यदि स्वार्थस्यानुभवे भवेद्धेतुस्तर्हि प्रात्यक्षिकएवौप- नायिके, तत्र नाकाङ्क्षाद्युपयोगः, तद्भिन्ने चेदानुमानिक एव न च तत्र सद्यः, साकाङ्क्षत्वादिधीमात्रेण, व्याप्तिबोध- स्याप्यधिकस्यापेक्षणादित्याशङ्काममनेतुमन्वयवोधनामकमनु- भवातरं दर्शयति । “साकाङ्क्षशब्दैर्योबोधस्तदर्थान्वय गोचरः । सोऽयं नियन्त्रितार्थत्वान्न प्रत्यक्षं न चानुसा” । शाब्दधियः प्रत्यक्षत्वाभ्युपगमे प्रत्यक्षादिसामान्यं प्रति शाब्द- सामग्र्याः प्रतिबन्धकत्वासम्भवात्, शाब्दान्यप्रत्यक्षत्वाद्य- वच्छिन्नं प्रति तस्यास्तथात्वमपेक्ष्य शाब्दधियः प्रत्यक्षाद्भि- न्नत्वकल्पनायामेव लाघवाच्च । लिङ्गजन्यत्वेनान्वय- बुद्धेरनुमितित्वसिद्धावनायत्त्या शाब्दान्यानुमित्यां तत्सा- मग्र्याः प्रतिबन्धकत्वं वाच्यमतो लिङ्गजत्वमेव शाब्द- धियः खण्डयति । “योग्यतार्थगताऽऽकाङ्क्षा शब्दनिष्ठाऽनु- भाविका । प्रत्येकं वा मिलित्वा वा नैते लिङ्गमसिद्धितः” । गवादावस्तित्वादेरनुभवार्थं न तावदस्तित्वबाधविरहरूपं लिङ्गं बाधनिश्चयाभावेनान्यथासिद्धस्य योग्यतानिश्चयस्या- नावश्यकत्वात् योग्यतामात्रलिङ्गकसंसर्गानुमानस्यान्वय बुद्धित्वे घटः कर्म्मत्वमित्यादिस्थलीयस्यापि तस्य तथात्वा- पाताच्च । योग्यतायाः संशयस्थलेऽप्यग्वयबुद्धेरानुभविक- त्वात् । गवादावस्तित्वादेरन्वयबोधानुकूलानुपूर्व्वीपर्य्यवसिता त्वाकाङ्क्षा खयमसिद्धा कथमस्तित्वाद्यन्वयबोधं साधयेत् तत्र गवास्तित्वादेर्योग्यताविशिष्टमप्याकाड्क्षावत्त्वं न तद- न्वयस्य नुमापकप्रसिद्धेरित्यादि” ।
📄 मूल मुद्रित पृष्ठ (0218-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।