अपरत्व न० अपरस्य भावः त्व । अपरभावे तच्च वैशेषिकोक्तो गुणभेदः । तदपि द्विविधं दैशिकं कालिकञ्च तत्स्वरूपमपर- शब्दे उक्तम् । तत्र च कारणमपेक्षाबुद्धिविशेषः तस्य नाशाच्च परत्वापरत्वयोर्नाशः । “संयोगश्च विभागश्च परत्वञ्चापरत्वकमिति” “परापरत्वधीहेतुरेका नित्या दिगु- च्यते” इति च भाषा० । तत्र दैशिकापरत्वं अल्प- सूर्य्यसंयोगज्ञानजन्यं, कालिकं तु अल्पसूर्य्यपरिस्पन्द- ज्ञानजन्यभिति भेदः । कालिके कालोहेतुः दैशिके तु [] दिगिति भेदः । “परत्वञ्चापरत्वञ्च द्विविधं परिकीर्त्तितम् । दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम् ॥ परत्वं सूर्य्यसंयोगभयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥ तयोरसमावायो नु दिक्संयोगस्वदाश्रये । दिवाकरपरिस्पन्दपूर्व्वोत्पन्नत्वबुद्धितः ॥ परत्वमपरत्वन्तु तद- नन्तरबुद्धितः । अत्र त्वसामवायी स्यात् संयोगः काल- पिण्डयोः ॥ अपेक्षाबुद्धिनाशेन नाशस्त्वेषामुदाहृत” इति भाषा० ।
📄 मूल मुद्रित पृष्ठ (0231-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।