अपरपक्ष पु० अपरः शेषः पक्षः । कृष्णपक्षे स हि चन्द्रस्य वृद्धिह्रासपक्षयोर्मध्ये शेषः, चैत्रशुक्लप्रतिपद्येव वर्षारम्भ- णात् शुक्लस्य पूर्व्वत्वम् सुतरां कृष्णस्यापरत्वम् । “पूर्व्वपक्षो देवानामपरपक्षः पितॄणामिति” श्रुतिः । “यथा चैवा- ऽपरपक्षः पूर्व्वपक्षाद्विशिष्यते” इति मनुः “अथ श्राद्ध- ममावास्यायां पितॄणां दद्यात् पञ्चमीप्रभृति वाऽपर- पक्षस्येति” स्मृतिः “अश्वयुक्कृष्णपक्षस्य प्रेतपक्षत्वेन अपर- पक्षत्वव्यवहारः । “अमावास्यामृतोयश्चापरपक्षमृतस्तथा । तस्य पार्वणमुद्दिष्टं मुनिभिः पञ्चपात्रकमिति” स्मृतिः कचित् प्रेतपक्षेत्येव पाठः । “तुलादिषडशीत्यह्नां षडशीतिमुखं क्रमात् । तच्चतुष्टयमेव स्याद्द्विस्वभावेषु राशिषु ॥ षड्विशे धनुषो भागे द्वाविंशेऽनिमिषस्य च । मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे ॥ ततः शेषाणि कन्याया यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम्” इति सूर्य्यसिद्धान्तोक्तेः षडशीति- मुखावशिष्टानां षोडशानां दिनानां श्राद्धप्रशस्तकालत्वाद- परपक्षत्वम् अथ वा नास्ति परो यस्मात् तादृशः पक्षः । ताथाचाक्षयपुण्यदत्वेन अत्युत्कृष्टत्वात्तथात्वम् । पञ्चादशा- हस्यैव पक्षत्वेऽपि षोडशानां दिनानां किञ्चिदधिकपक्षत्वात् पक्षत्वम् तेषां सौरत्वेऽपि चान्द्रे पक्षे व्यवहारस्य गौणतेति भेदः । विकल्प्यमानयोः पक्षयोर्मध्ये शेषपक्षे च ।
📄 मूल मुद्रित पृष्ठ (0231,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।