अपरवैराग्य न० कर्म्म० । पातञ्जलोक्ते वैराग्यभेदे । यथा “दृष्टानुश्राविकविषयवितृष्णस्य वशीकारसंज्ञं वैराग्य- मिति” यतमानव्यतिरेकैकेन्द्रियवशीकारसंज्ञाश्चतस्रः तत्र रागादीनां चित्तस्थानां कषायाणां विषयेष्विन्द्रियप्रवर्त्तकानां पाकाय प्रयत्नो यतमानसंज्ञं वैराग्यं ततः पक्वानां केषा- ञ्चित्कषायाणां वक्ष्यमाणेभ्यो विरागावधारणं व्यतिरेकसंज्ञं वैराग्यं, ततः पक्वानां सर्वेषामिन्द्रियप्रवर्त्तनाऽशक्तानां मन- स्यैत्सुक्यरूपेणावस्थानमेकेन्द्रियसंज्ञं वैराग्यम्, स्त्रियोन्न- पानमित्यादिषु दृष्टेषु, गुरूच्चारणमनु श्रुवः श्रवणं यस्य सोऽनुश्रवो वेदः तदुक्तेष्वानुश्राविकेषु स्वर्गादिदिव्यविषयेषु मर्त्त्येषु च विनाशपरितापसातिशयत्वासूयादिदोषाणाम- भ्यासेन साक्षात्काराद्वितृष्णस्योपेक्षाबुद्धिः वंशीकारसंज्ञं वैराग्यमित्यर्थः । एतानि च संप्रज्ञातसमाधेरन्तरङ्गाणि असंप्रज्ञातसंसाधेस्तु बहिरङ्गाणि” इति पा० वृ० ।
📄 मूल मुद्रित पृष्ठ (0231,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।