अपहरण न० अप + हृ--ल्युट् । १ स्तेये साधारणस्य परकीयस्य वा धनादिचौर्य्ये । “सीताद्रव्यापहरणे शस्त्राणामौषधस्य चेति” “निक्षेपस्यापहरणं नराश्मरजतस्य चेति” “भक्ष्यभोज्याप- हरणे यानशय्यासनस्य च” इति च मनुः स्तेयस्वरूपञ्च स्मृतौ दर्शितं यथा “उपायैर्विविधैरेषां छलयित्वापकर्षणम् सुप्तमत्त प्रमत्तेभ्यः स्तेयमाहुर्मनीषिण” इति नार० । “स्यात् साहसं त्वन्वयवत् प्रसभं कर्म्मयत् कृतम् । निरन्वयं भवेत् स्तेयं कृत्वा- पह्नूयते च यदिति” मनुः । “अन्वयवद् द्रव्यरक्षिराजा- ध्यक्षादिसमक्षं प्रसभं बलावष्टम्भेन यत् परधनहरणा- दिकं क्रियते तत् साहसं, स्तेयन्तु तद्विलक्षणं निरन्वयं द्रव्य- स्वाम्याद्यसमक्ष वञ्चयित्वा यत् परधनहरणं तदुच्यते यच्च- सान्वयमपि कृत्वा न मयेदं कृतमिति भयात् निह्नुते तदपि स्तेयमिति” मिताक्षरा । तच्च साधारणस्य परकीयस्य वा हरणम् “सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतमिति” याज्ञ० उक्तेः । तथाच परकीये साधारणे वा द्रव्ये स्वत्व हेतुभूतलौकिकक्रयप्रतिग्रहादिकमन्तरेण स्वलम्पादनं [] हरणम् तदेव बलपूर्व्वकं साहसमिति भेद इति मिताक्षरादि- मतम् दायभागमते तु साधारणद्रव्यस्य नापहरणं परमात्र स्वत्ववद्द्रव्यस्यैवापहरणमिति तत्रोक्तेरिति विशेषः । २ बला- दपकर्षणे च । “निर्विण्णोऽतिममत्वेन राज्यापहरणेन चेति” देवी मा० ।
📄 मूल मुद्रित पृष्ठ (0240-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।