अपादान न० अपगमाय आदीयतेऽवधित्वेन अप + आ + दा- ल्युट् । “ध्रुवमपायेऽपादानमिति” १ व्याकरणपरिभाषि कारकभेदे । यथोक्तं हरिणा “अपाये थदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते” पत तोध्रुव एवाश्चो यस्मादश्वात् पततत्यसौ । तस्याप्यश्वस्य प्रतने कुड्यादि ध्रुवमुच्यते । मेषान्तरक्रियापेक्षमवधित्वंपृथक्पृथक् । मेषयोः स्वक्रियापेक्षं कर्तॄत्वञ्च पृथक् पृथक्” इति तच्चापा- दानं त्रिविधम् । “निर्द्दिष्टविषयं किञ्चिदुपात्तविषयं तथा । अपेक्षितक्रियञ्चेति त्रिधापादानमिष्यते” इति हर्य्युक्तेः । निर्द्दिष्टः श्रूयमाणो विषयो यस्य तत्, स्वापेक्षितश्रूयमाण- क्रियमित्यर्थः यथा वृक्षात् पत्रं पततीत्यादौ, अपादानविषयी- भूतं पतनं हि तत्रश्रूयमाणम् । द्वितीयम् उपात्तः गृहीतः धात्वन्तरार्थघटकीभूत इति यावत् विषयो यस्येति व्युत्पत्त्या स्वविषयक्रियाघटितश्रूयमाणक्रियान्तरमित्यर्थः यथा मेघात् विद्योतते विद्युदित्यादौ निःसरणपूर्व्वकविद्योतनार्थविद्योत- तियोगे मेघादेस्तदेकदेशे निःसरणेऽपादानत्वम् । अपेक्षित- क्रियं तृयीयं यया कुतो भवानिति प्रश्नवाक्ये, पाटलिपुत्रा- दित्युत्तरवाक्ये च कुत इति पाटलिपुत्रादित्यनयोरपेक्षित- गत्यादिक्रियापेक्षत्वात् अपेक्षितक्रियापादानत्वम् । “अपा- दाने पञ्चमीति पा० ।
📄 मूल मुद्रित पृष्ठ (0244,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।