🕉️ 21 November 2026, Saturday · 10:29:04 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अप्सरम्
apsaram
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अप्सरम् स्त्री ब० व० अद्भ्यः सरन्ति उद्गच्छन्ति सृ--अमुन् । समुद्रान्निस्सृतायां स्वर्वेश्यायाम् “अप्सुनिर्मथनादेव रसात्त- स्माद्वरस्त्रियः । उत्पेतुर्मनुजश्रेष्ठ । तस्मादप्सरसो ऽभवन्” इत्युक्तेस्तासां तथात्वम् । “एकाप्सरःप्रार्थितयोर्विवादः” रघुः “आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः स- निमेषचिह्नाः” इति माघः । तासां च नाट्यकर्म्म वृत्तिः । ताश्च प्रधानतया द्वादश वह्निपुराणे दर्शिताः “उर्व्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा भानुवत्यबला रम्या द्वादशाप्सरसः शुभाः” इति गणभेदनामाध्याये । अत्र शुभा इति विशेषणात् अन्या अपि । ताश्च “उर्वशी मेनका रम्भा घृताची पुञ्जिकास्थला सुकेशी मञ्जुघोषा च महारङ्गवतीति च” इति मा० पु० “अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा । क्रोधा प्रधा च विश्वा च विनता कपिला मुनिः । कद्रुश्च मनुजव्याघ्र । दक्षकन्यास्त्रयोदश” इति कश्यपपत्नीरभिधाय । “इत्येते देवगन्धर्व्वाः प्राधेयाः परिकीर्त्तिताः” इति गन्धर्ववंशमभिधाय च “इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् प्रधाऽसूत महाभागादेव देवर्षितः पुरा । अलम्बुषा मिश्रकेशो विद्युत्पर्णा तिलो- त्तमा । अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा । केशिनी च सुबाहुश्च सुरता सुरसा तथा । सुप्रिया चातिबाहुश्च” [] इत्युक्तम् भा० आ० प० । एतासाञ्च चतुर्द्दशोत्पत्ति स्थानानि क दम्बर्य्यां वर्ण्णितानि “यथा विबुधसद्मन्यपसरसो नाम कन्यकाः सन्तीति तासां चतुर्दश कुलानि एकं भगवतः कमलयोनेर्मनसः समुत्पन्नम्, अन्यद्वेदेभ्यः सम्भूतम्, अन्य- दग्नेरुद्भूतम् अन्यत् पवनात् प्रसूतम्, अन्यदमृतान्मथ्य- मानादुथितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्यो निर्गतम्, अन्यत् सोमरश्मिभ्यो निष्पतितम्, अन्यद्भूमेरु- द्भूतम्, अन्यत् सौदामनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मि- तम्, अपरं मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्य प्रजापतेरतिप्रभूतानां सुतानां मध्ये द्वौ सुते मुनिररिष्टा च बभूवतुः, ताभ्यां गन्धर्वैः सह कुलद्वयं जातम् एवमेतान्येकत्र चतुर्दश कुलानि” एतन्मूलं तु विस्तरभया- न्नोक्तम् । २ दिशि ३ उपदिशि च तयोर्जलहेतुत्वात्तथा- त्वम् “पुञ्जिकास्थला च क्रतुश्चाप्सरसाविति” य० १५, १५, “पुञ्जिकास्थला क्रतुस्थला चाप्सरसौ दिगु- पदिग्रूपे परिचारिके” इति वेददी० । “अप्सरसाविति दिक् च उपदिक् स्माह” श्रुतेस्तथात्वम् । “मेनका वै अप्सरारूपिणीति” भाष्यप्रयोगात् अप्सरसाविति श्रुति निर्देशाच्च नित्यबहुवचनान्ततेद्युत्सर्गः क्वचिदेकवचनान्तताऽपि
📄 मूल मुद्रित पृष्ठ (0267-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें