अब्जज पु० अब्जात् विष्णोर्नाभिकमलात् जायते जन--ड । चतुर्मुखे ब्रह्मणि तस्य विष्णुनाभिकमलजातत्वात्तथात्वम् “दृष्ट्वा भूतानि भगवान् लोकसृष्ठ्यर्थमव्ययः । ब्रह्मणोजन्म- सहितं बहुरूपं विचिन्वति” । इत्युपक्रम्य “ततस्तस्मिन्महा- तोये हविषो हरिरच्युतः । स्वपन् क्रीडंश्च विविधं मोदते [] वैस पावकिः पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः । सहस्रपर्ण्णं विरजो भास्कराभं हिरण्मयम् । अथ योग- विदां श्रेष्ठं सर्वभूतमनोमयम् । स्रष्टारं सर्वभूतानां ब्रह्माणं सर्वतोमुखम् । तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते । इति समुत्पादितवानित्याकर्षः अनतिदूरे चं “कस्त्वं पुष्करमध्यस्थः सोतोष्णीषश्चतुर्मुखः । आवां न गणये- र्गोहादास्मे त्वं विगतज्वरः । एह्यावयोर्बाहुयुद्धं प्रयच्छ कमलोद्भव! । इति तेन तस्य विष्णुनाभिकमलज त्वं तद्स्थृत्वञ्च हरि० पौ० प० । “स्वराशौ स्वांशगे सौम्ये (बुधे) लग्नस्थे वा भृगोः सुते । जीवे वाऽब्जजयोगोऽयं यातुः शत्रुविनाशकृदिति” ज्योतिषोक्ते २ यात्रायोगभेदे च ।
📄 मूल मुद्रित पृष्ठ (0270-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।