अब्दप पु० अब्दं पाति पा--क । १ वर्षाधिपे तदानयनप्रकारश्च सि० शि० दर्शितः यथा “अधोऽधस्त्रिधा कल्पयाताब्दवृन्दात् कराभ्यां, कृतैः, पावकैः, संगुणाच्च । भुजङ्गैरवाप्तं फलं स्याद्दिनाद्यं तदब्दान्वितं भास्करादब्दपः स्यात्” अत्रोपपत्तिः । एकस्मिन् रविवर्षे सावनाहाः प्राक् प्रतिपादिताः ३६५ । १५ । ३० । २२ । ३० एतदष्टभिः सवर्णितं कार्य्यम् । ततोऽनुपातः । यद्यष्टभिर्वर्षैरेताव- द्दिनाद्यं तदा कल्पगतैः किमिति । फलं दिनाद्यम् । तदनष्टं संस्थाप्यम् । ततो गताब्दैर्युतं सदब्दपतिः स्यादिति यदुक्तं तद्युकम् । यतः पञ्चषष्ट्यधिकशतत्रये मप्तभिर्भक्ते एकोऽवशिष्यते । अत एकगुणाब्दसंख्या तस्मिन् दिनाद्ये निक्षिप्ता । तस्मिन् सप्ततष्टेऽर्काद्योऽब्दपतिः । यतो यस्मिन् वारेऽब्दादिः सोऽब्दपतिः स्यादित्युपपन्नम् । ताजिकोक्ते २ वर्षाधिपतौ च तदानयनप्रकःरश्च जन्मलग्न- पतिवर्षलग्नाषिपतिमुन्यहाधिपतित्रिराशिपतीनां दिवा- सूर्य्याक्रान्तराशिपतेः रात्रौ चन्द्राक्रान्तराशिपतेश्चैषां पञ्चा- धिकःरिणां मध्ये द्वादशवर्गीबलेन पञ्चवर्गीबलेन वीपेतः लम्नदर्शी वर्षाधिपतिः । बलसाम्ये दृष्ट्यतिरेकात्, तत्रापि साम्ये वृष्ट्यभावे च मुथहेश्वरः, वर्षाधिपः । “अब्दपबलस्य विचारणेत्थम्” नी० ता० । अब्दपत्यादयोऽप्यत्र ।
अब्दप पु० अब्दपवत् वर्षाधिपे अब्दपशब्दे विवृतिः । अब्दपत्यादयोऽप्यत्र ।
📄 मूल मुद्रित पृष्ठ (0272,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।