अभिप्लव पु० अभिप्लवन्ते स्वर्गमभिगच्छन्ति अभि + प्लु--गतौ अच् । १ प्राजापये आदित्ये । “अथादित्याश्च आङ्गिर- सश्च उभये प्राजापत्या अस्पर्द्धन्तवयं पूर्बे स्वर्गं लोकमेष्यामो- वयं पूर्ब इति । आदित्याश्चतुर्भिः स्तौमैश्चतुर्मिः पृष्ट्यैर्ल- घुभिः सामभिः स्वर्गं लोकमभ्यप्लवन्त तस्मादभिप्लवाः आदित्याः” शत० ब्रा० । वर्षसाध्ये गवामयने प्रत्येकमासीय- चतुर्विंशतिदिवसेषु चतुःषट्कात्मकेषु चतुर्षु षडहेषु विशेषः गवामयनशब्दे वक्ष्यते । “अभिप्लवः षडहः षड्द्यहानि भवन्त्यभिप्लवः” इति शत० ब्रा० । “अभिप्लवं पूर्व्वं पुरस्ताद्विषु- वत् उपयन्ति चतुर्विंशेन महाव्रतमभिप्लवेन परमभिप्लव- मिति” च शत० ब्रा० । ३ षडहसाध्ये स्तोमादिफुष्ठसाधनक गवामयनाङ्गयागभेदे च । ४ उपप्लवे--उपद्रवे ५ सर्व्वतः प्लवने च । अभिप्लवे विहितः ठक् । आभिप्लविकः उक्त- षडहेषु विहिते सामादौ ।
📄 मूल मुद्रित पृष्ठ (0294,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।