🕉️ 21 November 2026, Saturday · 09:26:10 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अमरावती
amarāvatī
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अमरावती संज्ञा स्त्री॰ [सं॰] देवताओं की पुरी । इंद्रपुरी । सुरपुरी ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अमरा-वती f. (cf. Pāṇ. vi, 3, 119), ‘the abode of the immortals’, Indra's residence, MBh.; Hariv. &c.
N. of a town in Berar.
📄 मूल मुद्रित पृष्ठ (80,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अमरावती [अमर-वत्, र being changed to रा by P. VI. 3. 119] 1 Abode of the gods, residence of Indra (said to be above Meru or the sun's orb; cf. Ki. 7. 2); ससंभ्रमेंद्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती K. P. 1. --2 N. of a modern town in Berar, Amraoti.
📄 मूल मुद्रित पृष्ठ (0150-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अमरावती स्त्री अमराविद्यन्तेऽस्यां मतुप् मस्य व दीर्घः । इन्द्रनगर्य्याम् । सा च मेरुपर्व्वतोपरिस्था “सद्रत्नकाञ्चन- मयं शिखरत्रयञ्च मेरो मुरारिकपुरारिपुराणि तेषु । तेषामधः शतमखज्वलनान्तकानां रक्षोऽम्बुपानिलशशीश- पुराणि चाष्टौ” सि० शि० । एतद्वर्णनं भा० स० प० ७ अध्याये काशी० ख० १० अध्याये च दृश्यम् । “ससम्भ्रमेन्द्रद्रुत- पातितार्गला निमीलाताक्षीव भियाऽमरावती” का० प्र० ।
📄 मूल मुद्रित पृष्ठ (0320,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अमरावती, स्त्री, (अमरा विद्यन्तेऽस्यां, अमर + मतुप् मस्थाने व दीर्घश्च ।) इन्द्रनगरी । इत्यमरः ॥ अमराः सन्ति अस्यामिति मोङ्मझपादिति वतुः नाम्न्यस्त्यर्थे इति दीर्घः । इति भरतः ॥ तत्प- र्य्यायः । पूषभासा २ देवपूः ३ । इति जटाधरः ॥ महेन्द्रनगरी ४ अमरा ५ सुरपुरी ६ । इति शब्दरत्नावली ॥ तद्वर्णनं यथा । शिवशर्म्मोवाच । “रमयन्ती मनोऽतीव केयं कस्येयमीशितुः । नयनानन्दसन्दोहदायिनी पूरनुत्तमा” ॥ गणावूचतुः । “शिवशर्म्मन् महाभाग सुतीर्थफलितद्रुम । लोकोऽत्र रमते विप्र सहस्राक्षपुरी त्वियं ॥ तपोबलेन महता निर्म्मिता विश्वकर्म्मणा । दिवापि कौमुदी यस्याः सौधश्रेणीश्रियं श्रयेत् ॥ यदा कलानिधिः क्वापि दर्शेऽदृश्यत्वमावहेत् । तदा स्वप्रेयसीं ज्योत्स्नां सौधेष्वेषु निगूहयेत् ॥ यदच्छभित्तौ वीक्ष्य स्वमन्ययोषिद्विशङ्किता । मुग्धानाशु विशेच्चित्रमपि स्वां चित्रशालिकां ॥ हर्म्येषु नीलमणिभिर्न्निर्म्मितेष्वत्र निर्भयं । स्वनीलिमानमाधाय तमोऽहःस्वपि तिष्ठति ॥ चन्द्रकान्तशिलाजालस्रुतमत्रामलं जलं । तत्र चादाय कलसैर्न्नेच्छन्त्यन्यजलं जनाः ॥ कुविन्दा न च सन्त्यत्र न च ते पश्यतो हराः चेलान्यलङ्कृतीरत्र यतः कल्पद्रुमोऽर्पयेत् ॥ गणका नात्र विद्यन्ते चिन्ताविद्याविशारदाः । यतो जानाति सर्व्वेषां चिन्तां चिन्तामणिर्द्रुतं ॥ सूपकारा न सन्त्यत्र रसकर्म्मविचक्षणाः । दुग्धे सर्व्वरसानेका कामधेनुरतोऽनिशं ॥ कीर्त्तिरुच्चैःश्रवा यस्य सर्व्वतो वाजिराजिषु । रत्नमुच्चैःश्रवाश्चात्र हयानां पौरुषाधिकः ॥ ऐरावतो दन्तिराजश्चतुर्द्दन्तोऽत्र राजते । द्वितीय इव कैलासो जङ्गमः स्फाटिकोज्ज्वलः ॥ तरुरत्नं पारिजातः स्त्रीरत्नं सोर्व्वशी त्विह । नन्दनं वनरत्नञ्च रत्नं मन्दाकिनी ह्यपां ॥ त्रयस्त्रिंशत् सुराणां या कोटिः श्रुतिसमीरिता । प्रतीक्षते सावसरं सेवायै प्रत्यहं त्विह ॥ स्वर्गेष्विन्द्रपदादन्यन्नविशिष्येत किञ्चन । यद्यत् त्रैलोक्यमैश्वर्य्यं न तत्तुल्यमनेन हि ॥ अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् । किन्तेन तुल्यमन्यत् स्यात् पवित्रमथवा महत् ॥ अर्च्चिष्मती संयमनी पुण्यवत्यमलावती । गन्धवत्यलकैशी च नैतत्तुल्या महर्द्धिभिः ॥ अयमेव सहस्राक्षस्त्ययमेव दिवस्पतिः । शतमन्युरयन्देवो नामान्येतानि नामतः ॥ [] सप्तापि लोकपाला ये त एनं समुपासते । नारदाद्यैर्मुनिवरैरयमाशीर्भिरीड्यते ॥ एतत्स्थैर्य्येण सर्व्वेषां लोकानां स्थैर्य्यमिष्यते । पराजयान्महेन्द्रस्य त्रैलोक्यं स्यात् पराजितं ॥ मनुजा दनुजा दैत्यास्तपस्यन्त्युग्रसंयमाः । गन्धर्व्वयक्षरक्षांसि महेन्द्रपदलिप्सवः ॥ सगराद्या महीपाला वाजिमेधविधायकाः । कृतवन्तो महायत्नं शक्रैश्वर्य्यं जिघृक्षवः ॥ निष्प्रत्यूहं क्रतुशतं यः कश्चित् कुरुतेऽवनौ । जितेन्द्रियोऽमरावत्यां स प्राप्नोति पुलोमजां ॥ असमाप्तक्रतुशता वसन्त्यत्र महीभुजः । ज्योतिष्टोमादिभिर्यागैर्ये यजन्त्यपि ते द्विजाः ॥ तुलापुरुषदानादिमहादानानि षोडश । ये यच्छन्त्यमलात्मानस्ते लभन्तेऽमरावतीं ॥ अक्लीववादिनो धीराः संग्रामेष्वपराङ्मुखाः । विक्रान्ता वीरशयने तेऽत्र तिष्ठन्ति भूभुजः ॥ इत्युद्देशात् समाख्याता महेन्द्रनगरीस्थितिः । यायजूका वसन्त्यत्र यज्ञविद्याविशारदाः ॥ एतस्या दक्षिणे भागे येयं दृश्येत पूः शुभा । इमामर्च्चिष्मतीं वीक्ष्य वीतिहोत्रपुरीं शुभां” ॥ इति स्कान्दे काशीखण्डे १० अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (1-082-c)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "अमरावती" आता है (9)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें