अमृतसार” पु० अमृतस्य दुग्धस्य सारः । घृते । चक्रदत्तोक्ते अयःपाकभेदे यथा “लोहस्य पाकमधुना नागार्ज्जुनशिष्ट- मधिदघ्नः ॥ लोहारकूटताम्रजकटाहे दृढमृण्मये प्रणम्य शिवम् । तदयः पचेदचपलः काष्ठेन्धनेन वह्निना मृदुना ॥ निक्षिप्य त्रिफलाजलमृदितं यत्तत् घृतञ्च दुग्धञ्च । संचाल्य लौहमय्या दर्व्या लग्नं समुत्पाठ्य ॥ मृदुमध्यखरभावैः पाक- स्त्रिविधोऽत्र वक्ष्यते पुंसाम् । पित्तसमीरणश्लेष्मप्रकृतीनां [] मध्यमस्य समः ॥ अभ्यक्तदर्विलोहं सुखदुःखस्खलनयोगि मृदु मध्यम् । उज्झितदर्वि खरं परिभाषन्ते केचिदा- चार्य्याः ॥ अन्ये विहीनदर्व्वीप्रलेपमाखुत्कराकृतिं ब्रुवते । मृदुमध्यमर्द्धचूर्णं सिकतापुञ्जोपमन्तु खरम् ॥ त्रिबिधोऽपि पाक ईदृक् सर्वेषां गुणकृदेव न तु विफलः । प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम् ॥ विज्ञाय पाकमेवं द्रागवतार्य्य क्षितौ क्षणान् कियतः । विश्राम्य तत्र लोहे त्रिफलादेः प्रक्षिपेच्चूर्णम् ॥ यदि कर्पूरप्राप्तिर्भवति ततो विगलिते यदुष्णत्वे । चुर्ण्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः ॥ पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरुक्षत्वे । गीदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम् । यदि तु परिल्पुतिहेतोर्घृतमौक्षेताधिकं ततोऽन्यस्मिन् । भाण्डे निधाय रक्षेद्भाव्युपयोगो ह्यनेन महान् ॥ अयसि विरुक्षीभूते स्नेहस्तिलघृतेन सम्पाद्यः । एतत्ततो गुणो- त्तरमित्यमुना स्नेहनीयं तत् ॥ अत्यन्तकफप्रकृतेर्भक्षणमय- सोऽमुनैव संसन्ति । केबलमपीदमशितं जनयत्ययसो गुणान् कियतः ॥ अमृतसारः” चक्र० द० ।
📄 मूल मुद्रित पृष्ठ (0326-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।