अमृताहरणः, पुं, (अमृतमाहरति, मातृदास्याप- नयनार्थं स्वर्गात् भूलोकं नयति, आ + हृ + कर्त्तरि ल्युट्, ततः षष्ठीतत्पुरुषः ।) गरुडः । इति हारावली ॥ (“पुरा किल गरुडो मातु- र्विनतायाः सपत्नीदास्यनिवारणार्थं सर्व्वदेवान् विनिर्जित्य सोमरक्षकच्छेदनयन्त्रादिकञ्चातिक्रम्य स्वर्गादमृतं नागकुलाय दातुमाहृतवान्” । इति पौराणिकी कथा । महाभारतस्यादिपर्ब्बणि । “श्रुत्वा तमब्रुवन् सर्पा आहरामृतमोजसा । ततो दास्याद्विप्रमोक्षो भविता तव खेचर ! ॥ इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ॥ गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुं ॥ … … … स चक्रं क्षुरपर्य्यन्तमपश्यदमृतान्तिके । परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयं ॥ ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । … … … अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥ समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली । उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्य्यवान् ॥ … … … एवं तदमृतं तेन हृतमाहृतमेव च । द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना” ॥)
📄 मूल मुद्रित पृष्ठ (1-086-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।