अम्ब(रि)रीष पु० न० अम्ब्यते पच्यतेऽत्र अम्ब--अरिष नि० वा दीर्घः । (भाजनाखोला) इति ख्याते भर्जनपात्रे । अम्बरीषमपि । “वैश्यकुलाम्बरीषमहानसाद्वा” कात्या० ४, ७, १६, । “अग्निमाहृत्य गार्हपत्यागारे निर्मथ्याभ्या- दधीतेति शेषः वैश्यकुलाच्च लौकिकोऽग्निर्हुतोच्छिष्टो वा ग्राह्यः न तु परिगृहीत आवसथ्यादिः । अथवा अम्ब- रीषात् भ्राष्ट्रात् कन्दुकगृहात् महानसाद्वेति कर्क० । दीर्घयुक्तस्तु २ विष्णौ, ३ शिवे, ४ भास्करे ५ बालके आम्रातकटवृक्षे, ७ नरकभेदे, ८ अनुतापे । ९ सूर्य्य- वंश्यनृपभेदे पु० स च । “भगीरथसूतो राजा श्रुत इत्यभिविश्रुतः । नाभागस्तु श्रुतस्यासीत् पुत्रः परम- धार्मिकः । अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽ- भवत्” इति हरिवंशोक्तः सूर्य्यवंश्यभगीरथपौत्रः “अम्बरीष! शुकप्रोक्तं नित्यं भागवतं शृणु । परा० उ० । “मगवान् अम्बरीषश्च ब्राह्मण्यानमितौजसे भा० आवु० प० । “पुण्यश्लोकोऽम्बरीषश्च पुण्यश्लोको युधिष्ठिरः” इति प्रातःस्मरणीययेषु पुरा० ।
📄 मूल मुद्रित पृष्ठ (0328,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।