अम्लवर्गः, पुं, (अम्लानां अम्लरसप्रधानानां वर्गः ।) अम्लगणः । यथा । चाङ्गेरी । लकुचं । अम्लवेतसं । जम्वोरकं । वीजपूरकं । नागरङ्गं । दाडिमं । कपित्थं । अम्लं । वीजाम्लकं । अम्बष्ठा । कर- मर्दकं । निम्बूकं । इति राजनिर्घण्टः ॥ (मता- न्तरे यथा, -- “आम्र आम्रातको धात्री लकुचं च कपित्थकं । नारङ्गं द्विविधा जम्बूः करमर्दं प्रियारकं ॥ दाडिमं पार्ब्बती द्राक्षा द्विधा वदरतूदकं । [] वीजपूरं च जम्बीरं निम्बल्मीकाम्लवेतसं ॥ वृक्षाम्लं हरिमन्थञ्च चाङ्गेरीत्यम्लवर्गकः” ॥) “अम्लवेतसजम्बीरलुङ्गाम्लचणकाम्लकाः । नागरङ्गं तिन्तिडी च चिञ्चापत्रञ्च निम्बुकं ॥ चाङ्गेरी दाडिमञ्चैव करमर्द्दन्तथैव च । एष चाम्लगणः प्रोक्तो वेतसाम्लं सदोत्तमम्” ॥ इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥ “दाडिमामलकमातुलुङ्गाम्रातक-कपित्थ-करमर्द्द- वरकोल-प्राचीनामलक-तिन्तिडीक-कोशाम्र- भव्य-पारावत-वेत्रफल-लकुचाम्ल-वेतस-दन्तशठ- दधि-तक्र-सुरा-शुक्त-सौवीरक-तुषोदक-धान्याम्ल- प्रभृतीनि समासेनाम्लोवर्गः” ॥ इति सुश्रुतश्च ॥)
📄 मूल मुद्रित पृष्ठ (1-090-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।