अयानय पु० द्यूते सर्व्व शारगन्तव्यशेषसोमाभूते शीर्षस्थाने व्युत्पत्तिविवरणम् मत्कृतसरलायाम् यथा आनीयन्ते शारा अस्मिन् इत्यानयः अयेन दक्षिणावर्त्तेनापसव्य- [] गमनेनानयः अयानयः शीर्षस्थानम् । तत् नेयः ख । द्यूतविशेषे हि चतस्रोवीथयः प्रत्येकं द्वादशकोष्ठोपेताः शारास्तु त्रिंशत् ते च एकैककितवेन पञ्चुदशशो ग्राह्याः स्ववामपार्श्वस्थप्रथमकोष्ठपर्य्यन्तमारभ्यान्तिमकोष्ठ- रूपंशीर्षस्थानरूपमयानयं दक्षिणावर्त्तेनापसव्यगत्या सर्व्वे- ऽपि शारा नेया अतस्ते अयानयीना इत्युच्यन्ते तत्रायं प्रकारः “ससहायस्य शारस्य परैर्नाक्रम्यते पदम् । असहायस्तु शारेण परकीयेण हन्यते इत्युक्तदिशाव- सेयः । परैः परकीयैः नाक्रम्यते द्व्यादिशाराश्रित- कोष्ठं नाक्रम्यते परकीयशारेण तत्स्थानाक्रमणेन प्रतिरो- धात् । असहायस्तु हन्यते इत्यतः प्रतिरोधाजनकः “अनुपदसर्व्वायानयं बद्धा भक्षयति नेयेषु” पा० “अया- नयः स्थानविशेषः तं नेयः अयानयीनः शारः” सि० कौ ।
📄 मूल मुद्रित पृष्ठ (0344-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।