अरणीसुत पु० ३ त० । शुकदेवे “स लब्धा परमं देवाद्वरं सत्यवतीसुतः” । अरणीसहिते गृह्य ममन्थाग्निविर्की- र्षया । अथ रूपं परं राजन् बिभ्रतीं स्वेन तेजसा । घृताचीन्नामाप्सरसमपश्यद्भगवानृषिः । ऋषि- रप्सरसं दृष्ट्वां सहसा काममोहितः । अभवद्भग- वान् व्यासो वने तस्सिन् युधिष्ठिर! । सा च दृष्ट्वा तदा व्यासं कामसंविग्नमानसम् । शुकीभूत्वा महाराज! घृताची समुपागमत् । स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् । शरीरजेनानुगतः सर्व्वगात्रातिगेन ह । स तु धैर्य्येण महता निगृह्णन् हृच्छयं मुनिः । न शशाक निय- न्तुन्तत् व्यासः प्रविसृतं मनः । भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः । यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया । अरण्यामेव सहसा तस्य शुक्रमवापतत् । सोऽविशङ्केन भनसा तथैव द्विज सत्तमः । अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृपः । शुक्रे निर्म्मथ्यमाने स शुको जज्ञे महातपाः । परमर्षिर्महायोगी अरणीगर्भसम्भवः । यथा- ऽध्वरे समिद्धोऽग्निर्भाति हव्यमुदावहन् । तथारूपः शुको जज्ञ प्रज्वलन्निव तेजसा” भा० शा० प० ।
📄 मूल मुद्रित पृष्ठ (0350,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।