अरण्यधर्म्म पु० अरण्ये आचरणीयो धर्मः । वानप्रस्थधर्म्मे । स च धर्मः “गृहस्थस्तु यदा पश्येद्बलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् । सन्त्यज्य ग्राम्यमाहारं सर्व्वञ्चैव परिच्छदम् । पुत्त्रेषु भार्य्यां निक्षिप्य वनं गच्छेत् सहैव वा । अग्निहोत्रं समादाय गृह्यञ्चाग्निपरि- च्छदम् । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः । मुन्यन्नैर्व्विविघैर्म्मेध्यैः शाकमूलफलेन वा । एतानेव महा यज्ञान्निर्व्वपेद्विधिपूर्व्वकम् । वसीत चर्म्म चीरं वा सायं स्नायात् प्रगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोम- नखानि च । यद्भक्ष्यं स्यात्ततो दद्याद्बलिं भिक्षाञ्च शक्तितः । अम्मूलफलभिक्षाभिरर्च्चयेदाश्रमागतान् । स्वा- ध्याये नित्ययुक्तः स्याद्दान्तोमैत्त्रः समाहितः । दाता नित्य- मनादाता सर्व्वभूतानुकम्यकः । वैतानिकञ्च जुहुयादग्नि- होत्रं यथाविधि । दर्शमस्कन्दयन् पर्व्व पौर्णमासञ्च योगतः । ऋक्षेष्ट्याग्रयणञ्चैव चातुर्म्मास्यानि चाहरेत् । उत्तरायणञ्च क्रमशो दक्षिणायनमेव च । वासन्तशारदैर्म्मे- ध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैब विधिबन्नि- र्व्वपेत् पृथक् । देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि युञ्चीत लवणञ्च स्वयंकृतम् । स्थलजो- दकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्य- द्यात् स्नेहांश्च फलसम्भवान् । वर्जयेन्मधुमांसञ्च भौमानि कवकानि च । भूस्तृणं शिग्रुकञ्चैव श्लेष्मान्तकफलानि च । त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्व्वसञ्चितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च । न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् । न ग्रामजा- न्यार्त्तोऽपि मूलानि च फलानि च । अग्निपक्वा- शनोवा स्यात् कालपक्वभुगेव वा । अश्मकुट्टोभवेद्वापि दन्तोलूखलिकोपि वा । सद्यःप्रक्षालको वा स्यान्मासस- ञ्चयिकोऽपि वा । षण्मासनिचयोवा स्यात् समानिचय एव वा । नक्तञ्चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः । चतुर्यकालिकोवा स्यात् स्याद्वाप्यष्टमकालिकः । चान्द्रा- यणविधानैर्वा शुक्ले कृष्णे च वर्त्तयेत् । पक्षान्तयो- र्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् । पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदा । कालपक्वैः स्वयंशीर्णैर्वैखान- समते स्थितः । भूमौ विपरिवर्त्तेत तिष्ठेद्वा प्रपदैर्द्दिनम् । [] स्थानासनाभ्यां विहरेत् सवने स्नपयन्नपः । ग्रीष्मे पञ्च- तपास्तु स्याद्वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्द्धयंस्तपः । उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् । तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः । अग्नीना- त्मनि वैतानान् समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः । अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः । शरणेष्वममश्चैव वृक्षमूलनिकेतनः । तापसेष्वेव विप्रेषु यात्रिकं भैक्ष्यमाचरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा । एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । विविधा श्चौपनिषदीरात्मसंसिद्धये श्रुतीः । ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः । विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये । अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः । आ नि- पाताच्छरीरस्य युक्तो वाय्येनिलाशनः । आसां महर्षि- चर्य्याणां त्यक्त्वान्यतमया तनूम् । वीतशोकमयो विप्रो ब्रह्मलोके महीयते” मनुः ६ अ० ।
📄 मूल मुद्रित पृष्ठ (0351-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।