अरुणप्रिया स्त्री अरुणस्य प्रिया । सूर्य्यभार्य्यायाम् १ संज्ञायाम् २ छायायाञ्च अरुणभार्य्यादयोऽप्यत्र “तस्य भार्य्याऽभवत् देवी संज्ञा त्वाष्ट्री विवस्वतः” इति । “असहन्ती तु तां छायां सवर्ण्णां निर्म्ममे ततः । छाया- मयीं तु सा सज्ञा, तस्याश्छायासमुत्थिता । प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर! । उवाच किं मया कार्य्यं कथ- यस्व शुचिस्मिते! । स्थितास्मि तव निर्द्देशे शाधि मां वर- वर्णिनि! । संज्ञोवाच । अहं यास्यामि भद्रंते स्वमेव भवनं पितुः । त्वयेह भवने मह्यं वस्तव्यं निर्वाचरया । इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा । संभाव्यास्ते न चाख्ये- यमिदं भगवते क्वचित् । छायोवाच । आकचग्रहणा द्देवि! [] आ शापान्नैव कर्हिचित् । आख्यास्यामि मतं तुभ्यं गच्छ देवि! यथेच्छया” । इति हरिवं० । ३ प्रधाकन्याभेदे च । “सुषुवेऽष्टौ महाभागा प्रधा देवर्षिपूजिताः” । अनुवन्द्या मनूकाञ्च अनूनामरुणप्रियाम् अनुगां सुभगाञ्चैव” हरिवं० अरुणवर्णं पुष्पादि प्रियमस्य । ४ रक्तवर्णपुष्पप्रिये सूर्य्ये पु० ५ तद्वर्णपुष्पप्रियमात्रे त्रि० ।
📄 मूल मुद्रित पृष्ठ (0359-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।