अरुणात्मज पु० ६ त० । १ जटायौ पक्षिणि । २ सूर्यपुत्रे मन्दे ३ सावर्ण्णे मनौ ४ कर्ण्णे ५ सुग्रीवे ६ यमे च ७ अश्वि- नोकुमारयोः द्वि० व० ९ यमुनयां तपत्यां च स्त्री । “त्रीण्यपत्यानि कौरव्य! संज्ञायां तपतांवरः । आदित्यो जनयामास कन्यां द्वौ च प्रजापती । स च वैवस्वतः पूर्व्वं श्राद्ध- देवः प्रजापतिः । यसश्च यमुना चैव यमजौ संभूवतुः” । संज्ञायां द्वौ सुतौ सुता चेति त्रीण्यपत्यानि । “द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् । आदित्यो जनयामास पुत्रमात्मसमं तथा । पूर्व्वजस्य मनोस्तात! सदृशोऽयमिति प्रभुः । मनुरेवाभवन्नाम्रा सावर्ण्ण इति चोच्यते । द्विती- यायां सुतस्तस्याः स विज्ञेयः शनैश्चरः” । इति सावर्ण्णः शनिश्च एतौ द्वौ सुतौ, संज्ञायाः छायाख्यायां द्वितीयायां सवर्ण्णायां जातौ हरिवं० । वडवारूपधरिण्यां संज्ञायाञ्च अश्विनीकुमारौ जातौ यथा तत्रैव । “बडवारूपमास्थाय वने चरति शाद्वले । स तथारूपमास्थाय स्वां भार्य्यां शुभ- लीलया । ददर्श योगमास्थाय स्वां भार्य्यां वडवां ततः । अधृथां सर्व्वभूतानां तपसा नियमेन च । बडवावपुषा राजं- श्चरन्तीमकुतोभयाम् । सोऽश्वरूपेण भगवांस्तां सुखं सम- भावयत् । मैथुनाय विचेष्टन्तीं, परपुरुषशङ्कया । सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः । देवौ तस्यामजा- येतामश्विनो भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वाबश्वि- नाविति” । तपतीशब्दे तदुत्पत्तिः कर्ण्णोत्प्रत्तिः यथा “एवमुक्ता बहुविधं सान्त्वपूर्व्वं विवस्वता । सा तु नैच्छद्वरारोहा कन्याऽहमिति भारत! । बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी । तामर्कः पुनरेवेदमब्रवीद्भरतर्षभ! । मत्प्रसादान्न ते राज्ञि! भवि- [] ता दोष इत्युत । एवमुक्त्वा स भगवान् कुन्तिराजसुतां तदा । प्रकाशकर्त्ता तपनः सम्बभूव तया सह । तत्र वीरः समभवत् कर्णः शस्त्रभृतां वरः । आमुक्तकवचः श्रीमान्दे- वगर्भः श्रियाऽन्वितः । सहजं कवचं बिभ्रत् कुण्डली द्योतिताननः । अजायत सुतः कर्णः सर्व्वलोकेषुविश्रुतः” । भा० आ० प० । सुग्रीवोत्पत्तिः सुग्रीवशब्दे दृश्या ।
📄 मूल मुद्रित पृष्ठ (0360-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।