🕉️ 21 November 2026, Saturday · 02:21:11 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अर्थवाद
arthavāda
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अर्थवाद संज्ञा पुं॰ [सं॰] न्याय के अनुसार तीन प्रकार के वाक्यों में से एक । वह वाक्य जिससे कीसि विधि के करने की उत्तेजना पाई जाय । यह चार प्रकार का है—स्तुति, निंदा, परकृति और पुराकल्य ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अर्थ—वाद m. explanation of the meaning (of any precept), KātyŚr.; Nyāyad. &c.
praise, eulogium, Uttarar.
(also) speaking for gain, L.
📄 मूल मुद्रित पृष्ठ (91,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अर्थवादः, पुं, (अर्थस्य लक्षणया स्तुत्यर्थस्य निन्दा- र्थस्य वा वादः, वद् + करणे घञ् ।) स्तुतिः । प्रशंसा । इति हेमचन्द्रः ॥ स तु त्रिविधः । गुण- वादः १ अनुवादः २ भूतार्थवादः ३ । यथा, -- “विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” ॥ इति भट्टः ॥ तत्त्वसम्वोधिनीमते सप्तविधः । स्तुत्य- र्थवादः १ फलार्थवादः २ सिद्धार्थवादः ३ नि- न्दार्थवादः ४ परकृतिः ५ पुराकल्पः ६ मन्त्रः ७ । एषामुदाहरणानि श्रुत्युक्तत्वात् न लिखितानि ॥ विध्यसमभिव्याहृतवाक्यं । यथा । “अर्थवादश्च विध्यसमभिव्याहृतवाक्यरूपः” सोऽपि त्रिविधः । गुणवादानुवादभूतार्थवादभेदात् । यथा -- “विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” ॥ इति ॥ अयमर्थः । विरोधे विशेष्यविशेषणयोः सामानाधिकरण्येनान्वयविरोधे गुणवादः अङ्ग- कथनरूपत्वात् । यथा “यजमान स्रस्तरः” इति । अत्र स्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वय- बाधात् यजमानस्य कुशमुष्टिधारणरूपार्थवाद- रूपत्वात् गुणवादः । अवधारिते प्रमाणान्तर- सिद्धेऽर्थे यो वादः । यथा नान्तरीक्षेऽग्निश्चेतव्यः अग्निंर्हिमस्य भेषजं इत्यादि च । अन्तरीक्षेऽग्नि- चयनस्यासम्भवेन तदभावस्य अग्नेर्हिमनाशक- त्वस्य च लौकिकप्रमाणसिद्धत्वात् अनुवादः । तद्धानौ तयोर्विरोधावधारनयोरभावे भूतार्थ- वादः । यथा इन्द्रो वृत्रहन्नित्यादि । सोऽपि द्विविधः । स्तुत्यर्थवादो निन्दार्थवादश्च । यथा, -- “सन्ध्यामुपासते ये च” इत्यादि स्तुत्यर्थवादः । “स्त्रीतैलमांससंभोगी पर्ब्बस्वेतेषुवै पुमान् ॥ विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः” । इत्यादि निन्दार्थवादः । इति श्राद्धविवेकटीकायां श्रीकृष्णतर्कालङ्कारः ॥ * ॥ “प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनं” । इति वेदान्तसारः ॥ तद्विवरणं यथा । अथार्थ- वादाधिकरणं । तत्रार्थवादाश्च बहुषु श्रूयन्ते ते किं प्रमाणं न वेति संशये पूर्व्वपक्षसूत्रं । आम्ना- यस्य प्रवर्त्तकत्वं तदर्थमेव तदवतारादिति । अ- स्यार्थः । आम्नायस्य वेदस्य प्रवर्त्तकत्वं विधेये इति शेषः । तदर्थं वेदाभिधानात् । तच्च प्रवर्त्तकत्वं कार्य्यताज्ञानद्वारैव तद्विना प्रवृत्त्यभावात् । अतः सिद्धार्थकानां स्तुत्यर्थवादानां कार्य्यतावाच- कपदाभावात् न कार्य्यताधीजनकत्वं । अतो- ऽप्रामाण्यमेव । अतस्तेषामर्थवादानां प्रवर्त्तक- त्वार्थमवश्यं विधिकल्पनं कॢप्तविशेषणत्वं वा युक्तं अतएव सिद्धान्तसूत्रं । विधिना त्वेकवाक्य- त्वात् स्तुत्यर्थेन विधीनां स्युरिति । अस्यार्थः । अर्थवादानां स्तुतिपरत्वेन विधिना सह एक- वाक्यत्वात् ते अर्थवादाः प्रमाणानि स्युः । तथा च विधेयप्रवृत्तावेव तेषां तात्पर्य्यं तत्रैव प्रामाण्यं यत्परशब्दः स शब्दार्थ इति सिद्धान्तात् न स्वार्थे स्तुत्यादौ तत्र तात्पर्य्यामावात् । तर्हि यन्न टुःखेन [] सम्भिन्नमित्यादेः स्वत्न्त्रार्थवादानां का गतिरित्य- त्राह भूतार्थानां क्रियार्थेन समाम्नायः । अस्यार्थः । भूतार्थानां सिद्धार्थानां क्रियार्थेन कार्य्यबोधकेन विधिना इति यावत् । समाम्नायः पाठः कार्य्य- इति शेषः । ततश्च विधिवाक्याकाङ्क्षापूरकत्वेन कार्य्यान्वितबोधकतया तेषां प्रामाण्यं । यथा । लिखिष्यमाणयूपाहवनीयवाक्यानां यूपाहवनीय- परिचयाय कार्य्यान्वितबोधकत्वेन स्वार्यबोधकत्वे प्रामाण्यं । तथा स्वर्गकामो यजेतेत्यत्र स्वर्गरूप- परिचयाय स्वर्गबोधकत्वेन । “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरं । अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदं” ॥ इत्यादि वाक्यानामपि प्रामाण्यं । अन्यथा यूपा- दिपदार्थापरिचये च तत्तद्विधिवाक्यानां प्रवृ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "अर्थवाद" आता है (2)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें