अर्द्धगर्भ त्रि० अर्द्धे वत्सरस्यार्द्धेभार्गादौ पौषादौ वाब्रह्माण्डस्यार्धे गगने वा गर्भं गर्भस्थानीयमुदकं यस्य । सूर्य्यरश्मिभेदे ते हि मार्गादौ पौषादौ च भूमिस्थम् उदकमाकृष्य गर्भरूपेण गगने धारयन्ति इति ज्योतिषप्रसिद्धम् “तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने इत्यादिना ३२४ पृष्ठ दर्शितेन यादववाक्येनं तेषां मध्ये शतत्रयेश गर्भधारण स्योक्तेस्तथात्वम् गर्भधारणकालश्च वृ० स० उक्तम् यथा । “मार्गशिरःशुक्लपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् । पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम् । यन्नक्षत्रमुपगते गर्भ श्चन्द्रे भवेत् स चन्द्रवशात् । पञ्चनवते दिनशते तत्रैव प्रसवमायाति । सितपक्षभावाः कृष्णे, शुक्ले कृष्णा द्युस- म्भवाः रात्रौ । नक्तंप्रभवाश्चाहनि, सन्ध्याजाताश्च सन्ध्या- याम् । मार्गशीर्षाद्यागर्भामन्दफलाः पौषशुक्लजाताश्च । पौषस्यकृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् । माषसितोद्भवा गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति । माधस्य कृष्णपक्षेण निर्दिशेद्भाद्रपदशुक्लम् । फाल्गुनशुक्लसमुत्था भाद्रपदस्या सिते विनिर्देश्याः । तस्यैव कृष्णपक्षोद्भवास्तु ये तेऽश्वयुक्शुक्ले । चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः । चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति” इति । “सप्तार्द्धगर्भा भुवनस्य रेतः” ऋ० १, १६४, ३६ । “वत्- [] सरस्यार्द्धेगर्भस्थानीयमुदकं धारमाणाः” भा० ।
📄 मूल मुद्रित पृष्ठ (0374-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।