अर्म्मन् न० ऋ + मनिन् । नेत्ररोगभेदे “प्रस्तारिशुक्लक्षतजाधि मांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः । स्युःशुक्तिका चार्ज्जुन पिष्टकौ च जालं सिराणां पिडकाश्चंयाः स्युः । रोगा बला सग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे । प्रस्तारि ग्रथितमिहार्म्भ शुक्लभागे विस्तीर्णं तनुरुधिरप्रभं सनीलम् । शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्द्धते चिरेण । यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म्म । विस्तीर्णं मृदु वहलं यकृत्प्रकाशं श्यावं वा तदघिकमांसजार्म्म विद्यात् । शुक्ले यत् पिशितमुपैति वृद्धिमेति, इति सुश्रु० । अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्यलम्बितम् । अर्म्म चाल्पन्दधिनिभन्नीलं रक्तमथापि वा । छेद्यमेव तदर्म्म- स्यात् कृष्णमण्डलगञ्च यत्” । अर्म्मवन्मण्डलाग्रेण वडि- शेनावलम्बिना । अर्म्माणि पिडकां हन्यात्सिराजालानि तेन वै” इति च सुश्रु० ।
📄 मूल मुद्रित पृष्ठ (0379,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।