अलम्बुषा, स्त्री, (अलं पुष्णाति, पुष + क, पस्य बः, ततः स्त्रियां टाप् ।) मुण्डीरी । स्वर्गवेश्याभेदः । इति मेदिनी ॥ (“अलम्बुषा मिश्रकेशी पुण्डरीका तिलोत्तमा । सुरूपा लक्षणा क्षेमा तथा रम्भा मनोरमा” ॥ इति महाभारते ।) अन्यप्रवेशवारणार्थदत्तरे- खादिः ॥ लज्जालुभेदः । तत्पर्य्यायः । खरत्वक् २ मेदः ३ गला ४ । अस्या गुणाः । लघुत्वं । स्वादुत्वं । कृमिपित्तकफनाशित्वञ्च । इति राजनिर्घण्टः ॥ (भावप्राकाशश्च ॥ “अलम्बुषा गोक्षुरकं त्रिफला नागरा मृताः । यथोत्तरं भागवृद्ध्या श्यामाचूर्णन्तु तत्समं ॥ पिवेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा । पीतं जयत्यामवातं सशोथं वातशोणितं ॥ त्रिकजानूरुसन्धिस्थं ज्वरारोचकनाशनं । पथ्याक्षधात्र्यस्त्रिफला भागवृद्धावयं क्रमः” ॥ * ॥ अलम्बुषाद्यं चूर्णम् ॥ * ॥ इति वैद्यकचक्रपाणि- संग्रहः ॥ “अलम्बुषा गोक्षुरकं मूलं वरुणकस्य च । गुडूची नागरञ्चेति समभागानि कारयेत् ॥ [] तल्लक्षणानि “स्यात् स्मृतिभ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयं” । १२० “हेतोहतुमता सार्द्ध वर्णनं हेतुरुच्यते । हेतुर्हेतुमतोरैक्यवर्णनं हेतुरुच्यते” । १२१ “शुद्धापह्नुतिरन्यस्यारोपार्थो धर्म्मनिह्नवः । स एव युक्तिपूर्व्वश्चेदुच्यते हेत्वपह्नुतिः” । १२२ काञ्जिकेन तु तत्पेयं विडालपदमात्रकं । आमवाते प्रवृद्धे च योगोऽयममृतोपमः ॥ * ॥ अपरालम्बुषाद्यं चूर्णं ॥ * ॥ इति च भावप्रकाशे ॥)
📄 मूल मुद्रित पृष्ठ (1-119-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।