अवधूतगीत न० ३ त० । भागवते ११ स्क० भगवदुद्धवसंवादे यदुनृपं प्रति कस्यचिदवधूतस्य उपदेशभेदे । यथा “अत्रा- प्युदाहरन्तीममितिहासं पुरातनम् । अवधूतस्य संवादं यदोरमिततेजसः । अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । कविं निरीक्ष्य तरुणं यदुः पप्रच्छ षर्मवत् । कुतो बुद्धिरियं ब्रह्मन्नकर्त्तुः सुविशारदा । यामासाद्य भवाल्लोँकं विद्वांश्चरति बालवत् । प्रायोधर्मार्थकामेषु विवित्सायाञ्च मानवाः । हेतुनैव समीहन्ते आयुषा यशसा श्रिया । त्वन्तु कल्यः कविर्दक्षः सुभगोमितभाषणः । न कर्त्ता नेहसे कर्त्तुं जडोन्मत्तपिशाचवत् । जनेषु दह्यमानेषु कामलोभद- वाग्निना । न तप्यसेऽग्निना युक्तो गङ्गाम्भःस्थैव द्विपः । त्वं नः संपृच्छतां ब्रह्मन्! आत्मन्यानन्दकारणम् । ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः” इति यदुनृपेण तल्लक्षणमुक्तम् । एवं यदुना प्रष्टःस यदाह तदेव अवधूतगीतम् । तेन च “सन्ति मे बहवोराजन्! गुरवोबुद्ध्युपाश्रिताः । यतो बुद्धिमुपादाय सुस्थोऽटामीह तान् शृणु । पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रविः । कपोतोऽजगरः सिन्धुः पतगोमधुकृद्गजः । मधुहाहरिणो मीनः पिङ्गला कुर- रोऽर्भकः । कमारी शरकृत् सर्प ऊर्ण्णनाभः सुपेशकृत् । [] ततो मे गुरवो राजन्! चतुर्विंशतिराश्रिताः । शिक्षावृत्ति भिरेतेषामन्वशिक्षमनुक्रमात्” इत्युपक्रम्य क्षित्यादिभ्यश्चतु- र्विंशतेर्यथा यत् शिक्षितं तद्वर्ण्णितम् तद्विस्तरस्तु ९ नवमाध्यायसमाप्तिपर्य्यन्ते तत्रैवानुसन्धेयः ।
📄 मूल मुद्रित पृष्ठ (0428-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।