🕉️ 21 November 2026, Saturday · 11:36:52 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अवयविन्
avayavin
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अवयविन् mfn. having portions or subdivisions, a whole, BhP. &c.
अवयविन् m. (ई) a syllogism, Nyāyad. &c.
📄 मूल मुद्रित पृष्ठ (102,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अवयविन् a. [अवयवः कारणत्वेनास्त्यस्य इनि] Having limbs, having portions or subdivisions (as a whole); अवयविना सह पूर्वादयः समस्यंते P. II. 2. 1. Sk. --m. (वी) 1 A whole, any substance formed of several constituents; ननु अवयविनि किं मानं Sid. Mukt. --2 A syllogism, or any logical argument.
📄 मूल मुद्रित पृष्ठ (0185-c)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अवयविन् त्रि० अवयवः कारणत्वेनास्त्यस्य इनि । अवयवजन्ये द्रव्ये । अवयवित्वंच कार्य्यद्रव्यत्वम् । तच्च नैयाकिदिभिरवयवा- द्भिन्नतया उत्पद्यते इत्युरीकृतम् । तत्र मुक्ता० प्रमाणमप्युपन्य- स्तम् “ननु अवयविनि किं मानं? परमाणुपुञ्जैरैवोपपत्तेः न च परमाणूनामतोन्द्रियत्वात् घटादेः प्रत्यक्ष न स्यादिति वा- [] च्यम् एकस्थ परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्ष- त्वात् यथा एकस्य केशस्य दूरेऽप्रत्यक्षत्वे तत्समूहस्य प्रत्यक्ष- त्वम् । न च एकः स्थूलो महान् घट इति बुद्धेरनुपप- त्तिरिति वाच्यम् एको महान् धान्यराशिरितिवदुपपत्तेः, सैवं परमाणोरतोन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षायो- ग्यत्वात दूरस्यकेशस्तु नातीन्द्रियः सन्निधाने तस्यैव प्रत्यक्ष- त्वात् । न च तदानीम् अदृश्यपरमाणुपुञ्जात् दृश्यपरमाणुपु- ञ्जस्योत्पन्नत्वात् न प्रत्यक्षत्वे विरोध इति वाच्यम् अदृश्यस्य दृश्यानुपादानत्वात् अन्यथा चक्षुरूष्मादिसन्ततौ कदाचिद् दृश्यत्वप्रसङ्गात् । न चातितप्ततैलादौ कथमदृश्यदहनस- न्ततेः दृश्यदहनोत्पत्तिरिति वाच्यं तत्र तदन्तःपातिभिः दृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुपगमात् । न च अदृश्यद्व्यणुकेन कथं त्रसरेणोरुत्पत्तिरिति? वाच्यम् । यतो न वयं दृश्यत्वमदृश्यत्वं वा कस्यचित् स्वभावादाचक्ष्महे परन्तु महत्त्वोद्भूतरूपादिकारणसमुदायवशात् दृश्यत्वं तथा च त्रसरेणोर्म्महत्त्वात् प्रत्यक्षं न तु द्व्यणुकादेःतद- भावात् न हि तन्मतेऽपीदं सम्भवति परमाणौ महत्त्वा- भावात् इत्थं चावयविसिद्धौ तेषामुत्पादविनाशयोः प्रत्यक्ष- त्वादनित्यत्वं तेषां चावयवावयविधाराया अनन्तत्वे मेरुसर्ष- पयोरपि साम्यप्रसङ्गः । अतः क्वचिद्विश्रामो वाच्यः यत्र च विश्रामस्तस्यानित्यत्वे त्वसमवेतकार्य्योत्पत्तिप्रसङ्गः स्यात् अतस्तस्य नित्यत्वं महत्परिमाणतारतस्यस्य गगनादौ विश्रान्तत्वमिवाणुपरिमाणतारतम्यस्यापि क्वचिद्विश्रान्तत्व- मस्ति इति तस्य परमाणुत्वसिद्धिः न च त्रसरेणावेव विश्रामोऽस्त्विति वाच्यं त्रसरेणुः सावयवः चाक्षुषद्रव्यत्वात् घटवदित्यनुमानेन त दवयवसिद्धौ त्रसरेणोरवयवाः सावयवाः महदवयवत्त्वात् कपालवदित्यनुमानेन तदवयवसिद्धेः न चेदमप्रथोजकम् अपकृष्टमहत्त्वं प्रति अनेकद्रव्यवत्त्वस्य प्रयोजकत्वात् नचैवं क्रमेण तदवयवधारापि सिध्ये- दिति वाच्यम् अनवस्थाभवेन तदसिद्धेः” । व्यख्यातञ्चै तत् दिनकर्य्याम् । “बौद्धः शङ्कते नन्विति नन्वयं घटैत्यादि प्रतीतिरेव तत्र प्रमाणं भविष्यतीत्यत आह परमाणुपुञ्जै रेवेति विलक्षणसंस्थानविशिष्टैः परमाणुभिरेवेत्यर्थः उपप- त्तेरिति अयं घट इत्यादिप्रतीतेरुपपत्तेरित्यर्थः । तत् समूहस्य परमाणुसमूहस्य । तत्र दृष्टान्तमाह यथेति । तत्समूहस्य केशसमूहस्य । अनुपपत्तिरिति परमाणुविषयत्वादिति शेषः उपपर्त्तरिति तत्र यथा धान्यसमूहस्येकत्वादेक इति प्रतीतिरेवं संयोगविशेषस्यैव महत्त्वात्मकतया महानिति [] प्रतीतिस्तथा परमाणुपुञ्जेष्वपीति भावः । प्रत्यक्षायो- ग्यत्वादिति तथाच स्वभावतोऽयोग्यानां परमाणूनां पर- स्परसंयोगमात्रेण योग्यत्वं न भम्भवतीति भावः । दूर- स्थकेशस्तु स्वमावतो नातीन्द्रिय इति त्वदुक्तदृष्टान्तस्य वैषम्यमित्याह दूरस्थकेशस्त्विति तस्य दूरस्थ केशस्य । तस्यै- वेति एवकारश्च प्राक्तनसन्निधानपदेनान्वेति तथाच सन्नि- धान एव तस्य प्रत्यक्षत्वादित्यर्थः तथाच दूरत्वस्य प्रति बन्धकत्वात्तद्दशायाम् अप्रत्यक्षत्वमात्रं तस्य, न तु स्वाभाविका प्रत्यक्षत्वमिति भावः । उत्पन्नत्वादिति क्षणभङ्गवादिनां मते परमाणूनामुत्पत्तिस्वीकारादिति भावः । अन्यथा अ
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें