अवरोहिन् त्रि० अव + रुह--णिनि । १ वटवृक्ष । २ अवतरण- कर्त्तृमात्रे त्रि० स्त्रियां ङीप् । सा च ज्योतिषोक्ते ३ दशाभेदे तथा हि दशाशब्देवक्ष्यमाणस्य “आचं कुराजीशबुकेशुपूर्वा” [] इत्यादिक्रमस्यानुसारेण जन्मनक्षत्रावधितत्तदशाधिपानामनु- क्रमेण या दशा सा आरोहिणी तेषु चन्द्रादिपर्य्यन्तानां क्रमेण यथासम्भवं तेषामेव भोगेन पुनरवरोहेण सूर्य्यादीनां या दशा सावरोहिणी । तथाहि “आग्नेयादि त्रिरावृत्त्या तानि विंशोत्तरीयके” इत्युक्तदिशा जन्मनक्षत्रानुसारेण दशाधिषे आनीते तदुत्तरं तदुत्तरोत्तरपठितानां ग्रहाणां दशा । तत्र यस्य सूर्य्यदशायां जन्म तस्य आरोहिण्येव दशा यस्य तु चन्द्रादिदशायां जन्म तस्य तदुत्तरारोहक्रसेण कुजादि- दशा आरोहिणी एवं शुक्रान्तदशाः परिसमाप्य सूर्य्या- दीनां या दशा सैव अवरोहिणीति व्यपदिश्यते इति सम्प्रदायविदः । अन्ये तु स्वस्वभोग्य कालस्यार्द्धे प्रथममा रोहिणी दशा शेषार्द्धे अवरोहिणीत्याहुः । साच ग्रहविशेषे विशेषफलदा । यथोक्तम् “उच्चाङ्गपञ्चभस्थस्य दशा स्याद- वरोहिणी । तस्यामल्पमवाप्नोति फलं क्लेशाच्छुभं नरः । मित्रोच्चांशगतस्यैषा नूनं मध्यफला भवेत् । सैवानिष्ट- फलानर्था नीचार्य्यंशगतस्य च । नीचाङ्गपञ्चभस्थस्य दशावरोहिणी मता । तस्यां शुभफलं श्रेष्ठमक्लेशादेव जायते । शत्रुनीचांशगस्यैषा किञ्चित्कष्टफलाऽधमा । मित्रोच्चांशगतस्यास्य सैव सम्पूर्णदा मता” । इति सामा- न्यतोऽभिधाय” “दशाऽवरोहा दिननायकस्य कृषिक्रिया- वित्तगृहेष्टनाशम् । चौराग्निपीडां कलहं विरोधं नरेश- कोपं कुरुते विदेशम्” सू० । “निशाकरस्याप्यवरोहकाले स्त्रीपुत्रमित्राम्बरसौख्यहानिम् । मनोविकारं स्वजनैर्विरोधं चौराग्निभूतैर्लयमेति कष्टम्” । च० “धरासुतस्यावप्यरीहकाले स्थानार्थनाशं कलिकोपदुःखम् । विदेशवासं स्वजनैर्विरोधं चौराग्निभूपैः सततं करोति” । म० । “शशाङ्कसूनोस्त्ववरोहिणी या दशा महत् कष्टतरं तु दत्ते । विज्ञानहीनं पदरारसङ्गं नृपाग्निचौरेर्भयमत्र कष्टम्” । बु० । “देवेन्द्रपूज्यस्य दशाऽ- वरोहा करोति सौख्यं सकृदेव नाशम् । सकृद्यशःकान्ति- विशेषजालं नरेश्वरत्वं सकृदेव याति” । वृ० । “भृगोः सुत- स्याप्यवरोहकाले प्रचण्डवेश्यागमनं धनाप्तिम् । स्त्रीपुत्त्र- बन्ध्वार्त्तिमनोविकारम् भ्रूमूलरोगं मदनार्त्तिमेति” शु० । “दिनेशसूनोस्त्ववरोहकाले राज्यच्युतिं दारसुतार्थनाशम् । भाग्यक्षयं भूपतिकोपयुक्तं प्रेष्यत्वमायाति गुदाक्षिरोगम्” सर्वार्थचि० राहुकेत्वोस्त्वारोहावरोहयोर्विशेषो नास्ति
📄 मूल मुद्रित पृष्ठ (0443-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।