🕉️ 19 November 2026, Thursday · 09:15:25 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अवलेह
avaleha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अवलेह संज्ञा पुं॰ [सं॰]
१. लेई जो न अधिक गाढ़ी और न अधिक पतली हो और चाटी जाय । चटनी । माजून (वेद्यक) ।
२. औषध जो चाटा जाय ।
३. निर्यास । सत्त । अरक—जैसे, सोम [को॰] ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अव-लेह m. licking, lapping, VarBṛS.
an extract, electuary, Suśr.
अव-लेह &c. See अव-√ लिह्.
📄 मूल मुद्रित पृष्ठ (103,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अवलेहः 1 Licking, lapping. --2 An extract (as of Soma). --3 An electuary, confection; दाडिम˚.
📄 मूल मुद्रित पृष्ठ (0188-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अवलेह पु० अव + लिह--घञ् । १ जिह्वाग्रेणास्वादने । कर्म्मणि घञ् । २ तदास्वाद्ये औषधादौ च । “अतोऽवलेहान्वक्ष्यामः खदिरासननिम्बराजवृक्षशालसारक्वाथे तत्सारपिण्डान् श्लक्ष्णपिष्टान् प्रक्षिप्य विपचेत् ततो नातिद्रवं नातिसान्द्र मवतार्य्य तस्य पाणितलपूर्णमप्रातराशोमधुमिश्रं लिह्या देवं सालसारादौ न्यग्रोधारग्वधादौ च लेहान्धारयेत्” इति सुश्रु० ।
📄 मूल मुद्रित पृष्ठ (0444,a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
अवलेहः, पुं, (अवलिह्यते क्वाथादेः पुनः पाकात् घनीभूततया स्वाद्यते इति अव + लिह + कर्म्मणि घञ् ।) लेह्यौषधं । तस्य लक्षणं पर्य्यायश्च यथा, -- “क्वाथादेर्यत् पुनः पाकात् घनत्वं सारसक्रिया । सोऽवलेहश्चलेहश्च प्राश इत्युच्यते बुधैः” ॥ (“जिह्वालेह्यावलेहिका”) इति च वैद्यकपरि- भाषा । यथा, -- “कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी । श्लक्ष्णचूर्णीकृतं चैतन्मधुना सह लेहयेत् ॥ एषावलेहिका हन्ति सन्निपातं सुदारुणं । हिक्कां श्वासञ्च कासञ्च कण्ठरोगञ्च नाशयेत् ॥ एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः” । तन्त्रान्तरे च उक्तं । “अष्टाङ्गं मधुना लिह्यादार्द्रकस्य रसेन वा । संमोहं दारुणं हन्यात्तन्द्राकाससमन्वितम्” इति ॥ “सर्व्वेषु सन्निपातेषु न क्षौद्रमवचारयेत् । शीतोपचारि क्षौद्रं स्याच्छीतञ्चात्र विरुध्यते” ॥ अयमभिप्रायः । सन्निपातज्वरेषु श्लेष्मनिग्रहार्थं सर्व्वदा स्वेदो हित उक्तः । तत्राग्निसम्बन्धाद्देह- स्योष्णता तिष्ठेदेव । उष्णेण मधुना विरोधः । उक्तञ्च सुश्रुतेन । “उष्णैर्विरुध्यते सर्वं विषाम्ययतया मधु । उष्णात्तमुष्णैरुष्णञ्च तन्निहन्ति यथा विषं” इति ॥ [] शीतोपचारि क्षौद्रमिति । शीतेनोपचारोऽस्या- स्तीति शीतोपचारि । शीतञ्चात्र सन्निपाते विरुध्यते । अयमवलेहः प्रायेणोर्द्ध्वजत्रुजरोग- हरत्वात् सायमुपयुज्यते । यत उक्तं चरकेण । “ऊर्द्ध्वजत्रुगदघ्नी या सा सायमवलेहिका । अधोरोगहरी या सा भोजनात्प्राक् प्रयुज्यते” । पौष्करं पुष्करमूलं तदलाभे कुष्ठं देयं ॥ शृङ्गी कर्कटशृङ्गी ! व्योषं शुण्ठीपिप्पलीमरिचानि च । यासो यवासः । केचित् यासस्थाने यवानीं प्रक्षिपन्ति । कारवी मगरेला इति लोके । अष्टा- ङ्गावलेहिका ॥ * ॥ “स्विन्नमामलकं पिष्ट्वा द्राक्षया सह मेलयेत् । विश्वभेषजसंयुक्तं मधुना सह लेहयेत् ॥ तेनास्य शाम्यति श्वासः कासो मूर्च्छारुचिस्तथा” ॥ इत्यवलेहः ॥ * ॥ अन्यत् यथा, -- “पिप्पलीं त्रिफलाञ्चापि समभागां ज्वरी लिहन् । मधुना सर्पिषा वापि कासी श्वासी सुखी भवेत् ॥ कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह । श्वासकाशज्वरहरो लेहोऽयं कफनाशनः” ॥ चातुर्भद्रिका ॥ * ॥ “कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा । कटुत्रयञ्च सर्व्वाणि समभागानि चूर्णयेत् ॥ आर्द्रकस्य रसैर्ल्लिह्यान्मधुना वा कफज्वरी । कासश्वासारुचिच्छर्द्दिश्लेष्मानिलनिवृत्तये” ॥ अष्टाङ्गावलेहः । इति भावप्रकाशः ॥ (“क्वाथस्य स्यात् पुनः पाकात् घनत्वं सारसक्रिया । सोऽवलेहश्च लेहः स्यात् तन्मात्रा स्यात्पलोन्मिता ॥ सिता चतुर्गुणा कार्य्या चूर्णाच्च द्विगुणो गुडः । द्रवं चतुर्गुणं दद्यादिति सर्व्वत्र निश्चयः ॥ सुपक्वे तन्तुमत्त्वं स्यादवलेहेऽप्सुमज्जनं । स्थिरत्वं पीड्यते मुद्रा गन्धवर्णरसोद्भवः ॥ दुग्धमिक्षुरसं यूषं पञ्चमूलकषायकं । वासाक्वाथं यथायोग्यमनुपानं प्रशस्यते ॥ * ॥ तदुदाहरणं । यथा, -- “कण्टकारीतुलां नीर-द्रोणे पक्त्वा कषायकं । पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ॥ पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः । मुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकं ॥ भार्गी रास्ना शठी चैव शर्करा पलविंशतिः । प्रत्येकञ्च पलान्यष्टौ प्रदद्याद्घृततैलयोः ॥ पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकं । चतुष्पलं तु गोक्षीर्य्या पिप्पलीनां चतुष्पलं ॥ क्षिप्त्वा निदध्यात् सुदृढे मृन्मये भाजने शुभे । लेहोऽयं हन्ति हिक्कार्त्तिश्वासकासानशेषतः ॥ * ॥ कण्टकार्य्यवलेहः ॥ * ॥ इति च शार्ङ्गधरः ॥)
📄 मूल मुद्रित पृष्ठ (1-128-b)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "अवलेह" आता है (3)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें