अवाक्शाख पु० अवाची शाखाऽस्य । “ऊर्द्धमूलमधःशाख- मश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्ण्णानि यस्तं वेद स वेदवित् । अधश्चोर्द्ध्वञ्च प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रबालाः । अधश्च मूलान्यनुसन्ततानि कर्म्मानुबन्धीनि मनुष्यलोके । न रूपमस्येह तथोपलभ्यते नान्तोन चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा । तत्पदं तत्परिमार्गितव्यम्” गीतोक्ते संसारवृक्षे । “ऊर्द्ध्वमुत्तरः क्षराक्षराभ्यामुत्कृष्टः पुरुषो- त्तमोमूलं यस्यतम् । अघैति ततोऽर्वाचीनाः कार्य्योपा- धयोहिरण्यगर्भादयोगृह्यन्ते ते तु शाखाइव शाखायस्य तम् । विनश्वरत्वेन न श्वःप्रभातपर्य्यन्तमपि स्थास्यतीति विश्वासानर्हत्वादश्वत्थं प्राहुः । प्रवाहरूपेणाविच्छेदादव्य- यञ्च । काः प्राहुः? “ऊर्द्ध्वमूलोऽर्व्वाक्शाखएषोऽश्वत्थः सनातन” इत्याद्याः श्रुतयः । छन्दांसि वेदायस्य पर्णानि धर्म्माधर्म्मप्रतिपादनद्वारेण छायास्थानीयैः कर्म्मफलैः संसारवृक्षस्य सर्व्वजीवाश्रयणीयत्वप्रतिपादनात् पर्णस्था- नीयावेदाः । यस्तमेवम्भूतमश्वत्थं वेद स एव वेदार्थवित् संसारप्रपञ्चवृक्षस्य मूलमीश्वरोब्रह्मादयस्तदंशाः शाखा- स्थानीयाः सच संसारवृक्षोऽविनश्वरः प्रवाहरूपेण नित्यः वैदोक्तैः कर्म्मभिः सेव्यतामापादितश्च इत्येतावानेव हि वेदार्थः अत एवं विद्वान्वेदविदिति स्तूयते । किञ्च अधश्चेति । हिरण्यगर्भादयः कार्य्योपाधयोजीवाः शाखास्थानीयत्वे- नोक्तास्तेषु च ये दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसृता- विस्तारं गताः सुकृतिनश्चोर्द्ध्वं देवादियोनिषु प्रसृतास्तस्य संसारवृक्षस्य शाखाः । किञ्च गुणैः सत्त्वादिवृत्तिभिर्जलसे- चनैरिव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः । किञ्च विषयारूपा- दयः प्रबालाः पल्लवस्थानीया यासां शाखाग्रस्थानीयाभिरि- [] न्द्रियवृत्तिभिः संयुक्तत्वात् । किञ्च अधः, चशब्दादूर्द्ध्वञ्च मूलानि अनुसन्ततानि विरूढानि मुख्यं मूलमीश्वर एव इमानि त्वन्तरालानि मूलानि तत्तद्भोगवासनालक्षणानि । तेषां कार्यमाह मनुष्यलोके कर्म्मानुबन्धीनि कर्म्म अनुबन्धि उत्तरभावि येषां तानि ऊर्द्ध्वाधोलोकेष्वपि भुक्तभोगवासना भिर्हि कर्म्मक्षये मनुष्यलोकप्राप्तानां तत्तदनुरूपेषु कर्म्मसु प्रवृत्तिर्भवति तस्मिन्नेव हि कर्म्माधिकारोनान्येषु लोकेषु अतोमनुष्यलोकैत्युक्तम् । किञ्च न रूपमिति । इह संसारे स्थितैः प्राणिभिरस्य संसारवृक्षस्य तथा ऊर्द्ध्वमूलत्वादि प्रकारेण रूपं नोपलभ्यते । न चान्तोऽवसानमपर्य्यन्तत्वात् । नचादिरनादित्वात् । नच संप्रतिष्ठा स्थितिः कथं तिष्ठतीति नोपलभ्यते । यस्मादेवम्भूतोऽयं संसारवृक्षोदुरुच्छेद्यो ऽनर्थकरश्च तस्मादेनं दृढेन वैराग्येण छित्त्वा तत्त्वज्ञानाय यतेतेत्याह अश्वत्थमेनमिति” श्रीधरः ।
📄 मूल मुद्रित पृष्ठ (0448-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।