अशौचसङ्कर अशौचयीः सङ्करः । जननमरणाशौचयो र्मध्ये पुनर्जननामरणाशौचयोः पातेन जनिते अशौच- विशेषे । तत्कालभेदो यथा जननाशौचमध्ये जनना- शौचान्तरपाते पूर्व्वाशौचकालेन शुद्धिः । पूर्णाशौ- चान्त्यदिने पूर्णाशौचान्तरपाते अन्तिमदिनोत्तरदिनद्वयेन शुद्धिः । अन्तिमदिवसोत्तरप्रभाते सूर्य्योदयात् पूर्व्वं तत्- पाते सूर्य्योदयावधिदिनत्रयेण शुद्धिः । एवं मरणाशौचेऽपि । वर्द्धितदिनद्वयत्नयाभ्यन्तरे अशौचान्तरपाते पूर्व्वैणैव शुद्धिः । अशौचत्रितयान्तकृत्यमेकदैव । तद्द्वितीयदिनकृत्यं तत्परदिने । अत्र दशमदिनतत्प्रभातयोः पितृमातृभर्त्तृ मरणे तु न दिनद्वयत्रयाच्छुद्धिः किन्तु स्वावध्येव सम्पूर्णा- शौचमिति । ज्ञातिजननाशौचमध्ये स्वपुत्रजनने पूर्व्वार्द्धे पूर्व्वेण, परार्द्धे परेण शुद्धिः । एवं ज्ञातिमरणमध्ये पितृमा- तृभर्त्रृमरणे पूर्व्वार्द्धे पूर्व्वाशौचकालेन, परार्द्धेपित्राद्यशौच- कालेन शुद्धिः । स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोर्ज्ञाति- [] जनने, पितृमातृभर्त्तृमरणाशौचान्तिमदिनतत् प्रभातयोर्ज्ञा- तिमरणेऽपि न दिनद्वयत्रयवृद्धिः । स्वपुत्त्रयोस्तु तथा जनने मातापित्त्रोस्तुतथा मरणे न द्विनद्वयत्रयवृद्धिः । जनना- शौचयोस्तु सन्निपाते पूर्व्वार्द्धे जातोयदाऽशौचाभ्यन्तरे मृतस्तदा सपिण्डानां सद्यः शौचेन पूर्व्वाशौचस्य नाशः । तन्ना- शादेव परार्द्धजातमातापितृव्यतिरिक्तानां परजननाशौचस्य निवृत्तिः । परजातमरणे तु न तथा तस्य पूर्वजननावधि- स्थायित्वादिति गुरुचरणाः । एवं द्वितीयजातस्य पित्रोस्तु पूर्व्वार्द्धजातमरणे पूर्व्वाशौचकालावधि अङ्गास्पृश्यत्वयुक्त- मशौचं, परार्द्ध जातमरणे तु स्वावधिजननाशौचमङ्गास्पृ- श्यत्वयुक्तमिति । औत्सर्गिकसमसंख्यदिवसीयजननमरणा- शौचयोः सन्निपाते मरणाशौचकालेन शुद्धिः । तदन्यका लयोस्तु दीर्घकालाशौचकालेन शुद्धिः । ततश्च पुत्त्रवत्याविं- शतिरात्राशौचान्त्यदिने पत्युर्मरणे बहुकालेन जननाशौ- चकालेन शुद्धिः तथा सपिण्डद्वयजननजातद्वादशा- हान्त्यदिने पितृमातृभर्त्तृमरणेऽपि बहुकालीनाशौचकालेन शुद्धिः । प्रथमदिने सपिण्डमरणद्वये यावदशौचं सर्वगो- त्रास्पृश्यत्वयुक्तम् एवं प्रथमाहे सकुल्यद्वयरणेऽङ्गास्पृ- श्यत्वयुक्तं त्रिरात्रम् । तेनैतत् त्रिरात्रं गुरु विदेशम- रणादौ त्रिरात्रंतु लघु स्नानेनैवाङ्गास्पृश्यत्वनिवृत्तेः । ततश्चोभयोः सन्निपाते गुरुणैव शुद्धिः । एवं विदेशस्थमृत- ज्ञातित्रिरात्राद्विदेशस्थमृतपितृमातृभर्त्तृत्रिरात्रं गुरु । संपूर्णाशौचे तु अशक्तानामपि यावदशौचमक्षारलवणा- शित्वदर्शनात् । अत्रापि तावत्कालं तथासिद्धत्वा- त्तत्रापि गुरुणैव शुद्धिः । तुल्यत्रिरात्रयोस्तु सन्निपाते पूर्व्वेणैव शुद्धिः । तथा कन्यापुत्त्रयमजोत्पत्तौ मातु- र्मासेन शुद्धिः । तयोरशौचमध्ये मातुः कन्यामरणे सद्यः शुद्धिर्न पुत्त्रमरणात्, अन्येषान्तु प्रथमजातमरणात् शुद्धिः । न परजातमरणात् एवमन्यद्भाव्यं सुधीमिः” शुद्धितत्त्वम् ।
📄 मूल मुद्रित पृष्ठ (0493-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।