अश्मजाति स्त्री अश्मनो जातिः सामान्यमस्य । “पान्ना” ख्याते मरकतमणौ । अश्मन इव जातिरस्य । रत्नमात्ने अमरः रत्नानि च । “वज्रं गारुत्मतं पुष्परागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदस्तथा वैदूर्यमेव च । मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव” भाव० प्र० । “मुक्ताफलं हीरकं च वैदूर्य्यं पद्मरागकम् । पुष्परागं च गोमेदं नीलं गारु- त्मतं तथा । प्रबालयुक्तान्येताति महारत्नानि वै नव” विष्णु ध० । अत्र पुष्परागादीनां क्लीवताऽपि । अत्र चैषां महारत्नतैतोक्तेः तद्भिन्नानामपि रत्नत्वमस्त्येव यथोक्तं गारुडे “तेषु रक्षोविषव्याधिव्यालघ्नान्यघहानि च । प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च । वज्रं मुक्ता मणयः पद्मरागाः समरकताश्च प्रोक्ताः । अपि चेन्द्रनील- मणयो वैदूर्य्याः पुष्परागाश्च । कर्केतनकुरुविल्वौ रुधि- राक्षसमन्वित स्फटिकम् । विद्रुममणिश्च” ।
📄 मूल मुद्रित पृष्ठ (0494,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।