अश्रि(श्री) स्त्री अश्यते संहन्यतेऽनया अश--वङ्क्र्या० क्रि । १ गृहादेः कोणे । आश्रीयते संघातार्थम् आ + श्री- “आङि श्रीहनिभ्यां ह्रस्वश्च” उपा० इन् स च डित् । २ खड्गादेरग्रभागे उभयत्र वा ङीप् । “वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव- लक्ष्यते” कुमा० वाजपेययूपं प्रकृत्य । “स वा अष्टाश्रिर्भवति तस्मादष्टाश्रिर्भवति” शत० ब्रा० । चतुःपूर्व्वादस्मात् अच्- समा० चतुरश्रः । “कॢप्तोपचारां चतुरश्रवेदीम्” कुमा० योगविभागात् अत्यस्माठप्यच । तेन त्र्यश्रं षडश्रमित्यादि “आयताश्चतुरश्राश्च त्र्याश्रा मण्डलिनस्तथा” शस्त्रलक्षणे सुश्रुतः “वृत्तान्तस्त्र्यश्रपूर्व्वाणां नावाश्राणां पृथक् पृथक्” लीला० । समासान्तविधेरनित्यत्वात् क्वचिन्नाच् । “त्रिरश्रिं हन्ति चतुरश्रिरुग्रः ऋ० १, २५२, २ ।
अश्री(क) नास्ति श्रीर्यस्य नदीत्वाभावात् न ह्रस्वः तेन वा कप् । शोभाशून्ये ।
📄 मूल मुद्रित पृष्ठ (0496,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।