🕉️ 23 November 2026, Monday · 08:11:52 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अष्टमभाव
aṣṭamabhāva
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अष्टमभाव पु० अष्टमोभावः । ज्योतिषोक्ते जन्मलग्नावधिके १ अष्टमस्थाने तन्वादिद्वादशभावमध्ये २ अष्टमे भावे च भावश्च इष्टकालेऽंशकलाविकलादिना स्पटीकृतलग्नादिः । तदा- नयनं यथा “पूर्व्वं न तं स्याद्दिनरात्रिखण्डं दिवानिशो- रिष्टघटीविहीनम् । दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रि खण्डं त्वपरं नतं स्यात् । तत्काले सायनार्कस्थ भुक्त- भोग्यांशसंगुणात् । स्वोदयात् स्वाग्निलब्धं यत् भुक्तं भोग्यं रवेस्त्वजेत् । इष्टनाडीपलोयश्च गतगम्यान्निजोदयात् । शेषं खत्र्याहतं भक्तमशुद्धेन लवादिकम् । अशुद्धशुद्धभे हीनयुक् तनुर्व्ययनांशकम् । एवं लङ्कोदयैर्भुक्तं भोग्यं शोध्यं पलीकृतात् । पूर्व्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत् । सषड्भे लग्नभे जाया, तुर्य्यो, लग्नोनतुर्य्यतः । षष्ठां- शयुक् तनोःसन्धिरग्रे षष्ठांशयोजनात् । त्रयः स- सन्धयोभावाः षष्ठांशेनैकयुक् सुखात् । अग्रे त्रयः [] षडेवं ते भार्द्ध युक्ताः परेऽपि षट्” । नील० ता० । स्वस्वदेशो- दयमानं देशान्तरयोगादिना आनेयम् लङ्कोदयमानानि तु मेषस्य २७८, वृषस्य २९९, मिथुनस्य ३२३, कर्कटस्य ३२३ सिंहस्य २९९, कन्यायाः २७८, तुलायाः २७८, वृश्चि- कस्य २९९, धनुषः ३२३ मृगस्य ३२३, कुम्भस्य २९९, मीनस्य २७८, पलानि । एतदनुसारेण दशमराशेः उदय- मानं गृहीत्वा दशमभावानयनम् “खेटे भावसमे पूर्ण्णं फलं सन्धिसमे तु खम् । हीनेऽधिके द्विसन्धिभ्यां भावे पूर्व्वा- परे फलम्” नील० ता० । “भुक्तं भोग्यं स्वेष्टकालान्न श्रुध्येत् त्रिंशन्निघ्ना स्योदयाप्तं लवाठ्यम् । हीनं युक्तं भास्करे तत्तनुः स्यात् रात्रौ लग्नं भार्द्धयुक्ताद्रवेस्तु । खेटे सन्धिद्वयान्तःस्थे फलं तद्भावजं भवेत्” । नील० ता० । “अष्टमस्थाने च चिन्त्यान्याह दीपिकायाम्” “रन्ध्रायुर्मृतयोऽष्टमे” इति । ताजके तु अन्यान्यपि चिन्त्यान्याह । “मृत्यौ चिरन्तमं द्रव्यं भृतिंर्वित्तं रणे रिपुः । दुर्गस्थानं मृतिर्नाशः परीवादो मनोव्यथा” एतानि साधारणानि चिन्त्यानि विशेषतस्तत्र ग्रहयोगाद्रिष्टाद्युक्तं जातके यथा । “आयुः स्यानाधीश्वरः पापयुक्तः षष्ठान्त्यस्थः स्वल्पमायुस्तनोति । लग्नेशाढ्यश्चेदतिस्वल्पमेव दीर्घायुष्यं चाष्टमस्थः करोति । निघनतनुखभेगाः केन्द्रकोणत्रिलाभे १, ३, ४, ५, ७, ९, १०, ११, दघति हि विपुलायुर्भानुजोऽत्र प्रशस्तः । पनफरचतुरस्रेमध्यमं त्वायुरेते विदधति खलु नेष्टाः प्रान्त्य- षष्ठे बलिष्ठाः । कमलकुमुदबन्धू मृत्युरन्ध्रान्तिमाख्ये विपदमथ धराजो द्विद्विवर्षेऽष्टमस्थः । धनलयमथ यच्छेच्छक्रतुल्येबुधो- ऽव्दे क्षितिगुणदशसंख्ये रोगभोगापचारौ । अरिष्टोच्छ्वास निर्याणोच्छ्वासयोरत्र चिन्तनम् । दैवविद्भिः सदा कार्य्यमष्टमे भावचिन्तने” जातकप० वर्षप्रवेशकाले तु अन्यथा योग- विशेषात् फलमुक्तम् यथा “भौमेऽव्दपे क्रूरहते पत्या धातेऽव- लोकिते । अग्निभीरग्निभेक्रूरनष्टद्विपदभे मृतिः । विपत्ति- र्नरपालोत्था रिपुतस्करतोभयम् । तुर्य्ये मातुः पितृव्या द्वा मातुलार्त्तिस्ततोगुरुः । लग्नेन्थिहापतिसमापतयो मृतीशाश्चेदित्थशालिन इमे निधनप्रदाः स्युः । चेत् पाक- रिष्टसमये मृतिरेव तत्र सार्के कुजे नृपभयं दिवसेऽव्दशेवे । सूर्य्ये मूशरिफे सितेन जनने वर्षेऽधिकारी तथा केन्द्रे राज गदाद्भयं च रुगसृक्स्थानेऽधिकारीन्दुजे । सौम्ये क्रूरदृशा कुजस्य रुगसृग्दोषादि नाशस्थिते दग्धेबन्धमृती विदे- शतैति प्राहुर्बुधे तादृशे । भौमस्थानेऽधिकारीन्दौ गुप्तं नृपभयं रुजः । मन्देऽधिकारी खे चोपहते पीडाकरः [] स्मृतः । भौमस्थानेऽधिकृद्वह्नौ प्रहारो वा नृपाद्भयम् । आरे खस्थे चतुष्पाद्भ्यः पातोदुःखरुजोऽसृजः । वित्ताष्ट गेज्यो धनहा
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬