अष्टाङ्गयोग पु० अष्टावङ्गान्यस्य कर्म० । यमनियमाद्य- ष्टाङ्गे योगे स च अङ्गसहितोदर्शितः तन्त्रसारे । “ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः । तव स्नेहात् समाख्याता योगविघ्नकरास्तु ये । कामक्रोघलोभमोह- मदमात्सर्य्यसंज्ञकाः । योगाङ्गैरेतान्निर्ज्जित्य योगिनो- योगमाप्नुयुः । यमनियमावासनं प्राणायामस्ततःपरम् । प्रत्याहारो धारणाख्यं ध्यानं सार्द्धं समाधिना । योगा- ङ्गान्याहुरेतानि योगिनो योगसाधने । यमादयस्तु “अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं दयार्ज्जवम् । क्षमा धृति- र्मिताहारः शौचञ्चेति यमा दश । तपःसन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणज्ञ्चैव ह्रीर्मतिश्च जपोहुतम् । दशैते नियमाः प्रोक्तायोगशास्त्रविशारदैः । आसनानि आसनशब्दे वक्ष्यन्ते । “इडयाकर्षयेद्वायुं बाह्यं षोडशमात्रया । धारयेत् पूरितं योगी चतु षष्ठ्या तु मा- त्रया । सुषुम्णा मध्यगं, सत्यग्द्वात्रिंशन्मात्रया शनैः । नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः । भूयोभूयः क्रमात्तस्य व्यत्यासेन समाचरेत् । मात्रावृत्तिक्रमेणैव सम्यग्द्वादश षोडश । जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्बुधाः । तदपेतं निगर्भञ्च प्राणायामं परं विदुः । क्रमादभ्यस्यतः पुंसोदेह स्वेदोद्गमोऽधमः । मध्यमः कम्यसंयुक्तो भूमित्यागः परो- मतः । उत्तमस्य गुणावाप्तिर्य्यावच्छीलनमिष्यते” इन्द्रि- याणां विचरतां विवयेषु निरर्गलम् । बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते । अङ्गुष्ठगुल्फजानूरुसीमनी लिङ्गनाभिषु । हृद्ग्रीवाकण्ठदेशे तु लम्बिकायां तथा नसि । भ्रुमध्ये मस्तके मुर्द्ध्नि द्वादशान्ते यथाविधि । धारणं प्राणमरुतोधारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्त्तिना । आत्मन्यभीष्टदेवानां ध्यानं ध्यान- मिहोच्यते । समत्वभावनां नित्यं जीवात्षपरमात्मनोः । समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इत्यादि कथितं देवि कामादिरिपुनाशनम्” । पात० सू० तु अत्यथोक्तम् ।
📄 मूल मुद्रित पृष्ठ (0524,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।