अष्टादशन् a. [अष्ट च दश च] Eighteen; अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियां N. 1. 5. --Comp. --अंगः --गं the eighteen parts of medical science. --उपचारः [कर्म˚ संज्ञात्वान्न द्विगुः] the eighteen modes of showing respect or worshipping; आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकं स्नानं वस्त्रेपवीतं च भूषणानि च सर्वशः । गंधपुष्पे तथा धूपदीपावन्नं च तर्पणं । माल्यानुलेपनं चैव नमस्कारविसर्जने । अष्टादशोपचारैस्तु मंत्री पूजां समाचरेत् Tantra. --उपपुराणं a secondary or minor Purāṇa; अष्टान्युपपुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं नारासींहमतः परं । तृतीयं नारदं प्रोक्तं कुमारेण तु भाषितं । चतुर्थं शिवधर्माख्यं साक्षान्नंदीशभाषितं । दुर्वाससोक्तमाश्चर्यं नारदोक्तमतःपरं । कापिलं मानवं चैव तथैवोशनसेरितं । ब्रह्मांडं वारुणं चाथ कालिकाह्वयमेव च । माहेश्वरं तथा शांबं सौरं सर्वार्थसंचयं । पराशरोक्तं प्रवरं तथा भागवतद्वयं । इदमष्टादशं प्रोक्तं पुराणं कौर्मसंज्ञितं । चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ Hemādri. --धान्यं the 18 kinds of corn; यवगोधूमधान्यानि तिलाः कंगुकुलत्थकाः । माषा मुद्गा मसूराश्च निष्पावाः श्यामसर्षपाः ॥ गवेधुकाश्च नीवारा ओढक्योऽथ सतीनकाः । चणकाश्चीनकाश्चैव धान्यान्यष्टादशैव तु ॥. --पुराणं the eighteen Purāṇas: ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । तथान्यन्नारदीयं च मार्कंडेयं च सप्तमं ॥ आग्नेयमष्टकं प्रोक्तं भविष्यन्नवमं तथा । दशमं ब्रह्मवैवर्तं लिंगमेकादशं तथा ॥ वाराहं द्वादशं प्रोक्तं स्कांदं चात्र त्रयोदशं । चतुदर्शं वामनं च कौर्मं पंचदशं तथा ॥ मात्स्यं च गारुडं चैव ब्रह्मांडाष्टादशं तथा ॥. --भुजा an epithet of the goddess महालक्ष्मी. --विद्या the eighteen kinds of learning or lores; अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चर्तुदश ॥ आयुर्वेदो धनुर्वेदो गांधर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु ॥. --विवादपदं the eighteen subjects of litigation (causes of dispute); see Ms. 8. 4-7. --स्मृतिकारिन्
m. pl. the eighteen Smṛtikāras or law-givers of the Āryas; विष्णुः पराशरो दक्षः संवर्तव्यासहारिताः । शातातपो वसिष्ठश्च यमापस्तंबगौतमाः । देवलः शंखलिखितौ भरद्वाजोशनोत्रयः । शौनको याज्ञवल्क्यश्च दशाष्टौ स्मृतिकारिणः ॥.
📄 मूल मुद्रित पृष्ठ (0207-b) स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।