असत्यसन्ध त्रि० असत्ये सन्धाऽस्य । १ मृषार्थाभिसन्धानवति २ अन्यथास्थितस्यात्मनोऽन्यथारूपाभिमानवति च । यथा देहादिषु असत्येषु आत्माभिमानोऽसत्यसन्धा । अत एव छा० उप० तस्य अनर्थहेतुत्वं दृष्टान्तेन समर्थितम् । “पुरुषं सोम्योत हस्तगृहीतमानयन्त्यपाहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति स यदि तस्य कर्त्ता भवति तत एवानृतमा त्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्द्धाय परुशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्थते ॥ अथ यदि तस्याकर्त्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभि सन्धः सत्येनात्मानमन्तर्द्धाय परुशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते । स यथा तत्र नादह्येतैतदात्म्य- मिदं सर्व्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो!” “यथा सोम्य! पुरुषं चौर्य्यकर्म्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय चोतापि हस्तगृहीतं बद्धहस्तमान यन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्चाहुरपाहा- र्षीद्धनमस्यायम् । ते चाहुः किमपहरणमात्रेण बन्धन- मर्हति । अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गादित्युक्ताः पुनराहुः स्तेयमकार्षीच्चौर्य्येण धनमपाहार्षीदिति । तेष्वेवं वदत्सु इतरोऽपह्नुते नाहं तत्कर्त्ता इति । ते चाहुः सन्दिह्यमानाः स्तेयमकार्षीस्त्वमस्य धनस्येति । तस्मिं- श्चापह्नुवति आहुः परशुमस्मै तपतेति शोधयत्वात्मानमिति स यदि तस्य स्तैन्यस्य कर्त्ता भवति बहिश्चापह्नुते स एव- म्भूतस्तत एवानृतमन्यथा आत्मानं कुरुते स तथानृताभि सन्धोऽनृतेनात्मानमन्तर्द्धाय परशुं तप्तं मोहात् प्रतिगृह्- णाति स दह्यतेऽथ हन्यते राजपुरुषैः स्वकृतेनानृताभि- सन्धिदोषेण । अथ यदि तस्य कर्म्मणोऽकर्त्ता भवति तत एव सत्यमात्मानं कुरुते स तया स्तैन्याकर्तृतयात्मानभन्त- र्द्धाय परशुं तप्तं प्रतिगृह्णाति सत्याभिसन्धः सन्न दह्यते सत्यव्यवधानादथ मुच्यते च मृषाभियोक्तृभ्यः । तप्तपरशुह- स्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्त्रकत्त्रोः, अनृताभिसन्धो दह्यते न तु सत्याभिसन्धः । स यथा सत्याभिसन्धस्तप्त- परशुग्रहणकर्म्यणि सत्यव्यवहितहस्ततलत्वान्नादाहोत न [] दह्यते इत्येतदेवं सद्ब्रह्म सत्याभिसन्धेतरयोः शरीरपात- काले च तुल्यायां सत्सम्पत्तौ विद्वान् सत्सम्पद्य न पुन- र्व्याघ्रदेवादिदेहग्रहणायावर्त्तते” इति भा० ।
📄 मूल मुद्रित पृष्ठ (0540-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।