असमञ्जस् पु० सम् + अन्ज--असुन् न० त० । सगरनृपज्येष्ठ- पुत्रे अंशुमतः पितरि सूर्य्यवंश्ये क्षत्रियभेदे तत्कथा “अयोध्याधिपतिः श्रीमान् पूर्व्वमासीन्नराधिपः । सगरो- [] नाम धर्म्मात्मा प्रजाकामः स चाप्रजाः । विदर्भराजदुहिता केशिनी नाम नामतः । ज्येष्ठा सगरपत्न्यासीर्द्धर्मिष्ठा सत्यवा- दिनी । अरिष्टनेभिदुहिता रूपेणाप्रतिमा भुवि । द्वितीया सगरस्यासीत् पत्नी परमधार्म्मिकी” इत्युपक्रम्य । “अथ कालेन महता पुत्रं ज्येष्ठा व्य जायत । असमञ्जा इति ख्यातं काकुत्स्थं सगरात्मजम्” रामा० आ० २० अ० । “असमञ्जा इति ख्यातः सगरस्य सुतोह्यभूत् । यं शैव्या जनयामास पौरा- णां स हि दारकान् । गलेषु क्रोशतो गृह्य नद्याञ्चि- क्षेप दुर्बलान् । ततः पौराः समाजग्मुर्भयशोकपरि- प्लुताः । सगरञ्चाभ्ययाचन्त सर्व्वे प्राञ्जलयः स्थिताः । त्वं नस्त्राता महाराज! परचक्रादिभिर्भयात् । असमञ्जो- भयाद्घोरात्ततो नस्त्रातुमर्हसि । पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः । मुहूर्त्तं विमना भूत्वा सचिवानिद- मब्रवीत् । असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् । यदि वो मत्प्रिपं कार्य्यमेतच्छीघ्रं विधीयताम् । एवमुक्ता नरेन्द्रेण सचिवास्ते मराधिप! । यथोक्तं त्वरिताश्चक्रु र्यथा ज्ञापितवान्नृपः । एतत्ते सर्व्वमाख्यातं यथा पुत्रो महा- त्मना । पौरणां हितकामेन सगरेण विवासितः” भा० व० प० १०७ अ० । असच् । असमञ्जसोऽपि तस्मिन्नर्थे “असमञ्जस इत्युक्तः स केशिन्या नृपात्मजः । तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः” । “असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् । जातिस्मरः पुरा सङ्गाद्योगी योगाद्वि- चालितः । आचरन् गर्हितं लोके ज्ञातीनां कर्म्म विप्रि- यम् । सरय्वां क्रीडतोबालान् प्रास्यदुद्वेजयन् जनान् । एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै । योगैश्वर्य्येण बालांस्तान् दर्शयित्वा ततो ययौ । अयोध्यावासिनः सर्व्वे वालकान् पुनरागतान् । दृष्ट्वा विसिस्मिरे राजन्! राजा चाप्यन्वतप्यत” भाग० ९ म० ८ अ० ।
📄 मूल मुद्रित पृष्ठ (0542-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।