🕉️ 29 November 2026, Sunday · 11:25:08 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

असाक्षिन्
asākṣin
🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अ-साक्षिन् mfn. incompetent as a witness, not an eye-witness, Yājñ. ii, 71; Viṣṇus.
📄 मूल मुद्रित पृष्ठ (120,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
असाक्षिन् a. 1 Not an eye-witness. --2 One whose evidence is not admissible (in law). --3 One who is disqualified to attest a legal document.
📄 मूल मुद्रित पृष्ठ (0212-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
असाक्षिन् त्रि० न साक्षी । स्मृत्युक्ते वचनतो दोषादितोवा साक्ष्यकर्म्मसु अग्राह्ये श्रोत्रियादौ । असाक्षिणश्च मिता० दर्शिताः “उक्तलक्षणानां साक्षिणामसम्भवे प्रतिषेधरहि- तानामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः ते च पञ्चविधा नारदेन दर्शिताः “असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्जविधो बुधैः । वचनाद्दोषतोभेदात्स्वयमुक्ति- र्मृतान्तर” इति । के पुनर्वचनादसाक्षिण इत्याह । “श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजितादयः । असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः” या० स्मृ० तापसावानप्रस्थाः । आदिशब्देन पित्राविवदमानादीनां ग्रहणम् । यथाह शङ्खः । “न पित्राविवदमानगुरुकुलवासिपरिव्राजकवान प्रस्थनिर्ग्रन्थयः सासिण” इति दोषादसाक्षिणो दर्शिता नारदेन “स्तेनाः साहसिकाश्चण्डाः कितवा वञ्चकास्तथा । असाक्षिणस्ते दुष्टत्वात्तेषु सत्यन्न विद्यत” इति । चण्डाःकोपनाः कितवाद्यूतकृतः । भेदादसाक्षिणाञ्च स्वरूपन्तेनैव दर्शितम् । “साक्षिणां लिखितानां च निर्दिष्टानाञ्च वादिना । तेषामेकोऽन्यथा वादी भेदात्सर्वे न साक्षिण” इति । तथा स्वयमुक्तिस्वरूपञ्चोक्तम् । “स्वयमुक्तिरनिर्द्दिष्टः स्वय- मेवेत्य यो वदेत् । सूचीत्युक्तः सशास्त्रेषु न स साक्षित्वमर्ह तीति” । मृतान्तरस्यापि लणणमुक्तम् । “योऽर्थः श्रावयि- तव्यः स्यात्तस्मिन्नसति चार्थिनि । क्व तद्वदतु साक्षित्व मित्यसाक्षी मृतान्तर” इति । येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेत् यूयमत्रार्थे साक्षिण इति । तस्मिन्नर्थिनि प्रत्यर्थिनि वा असति मृतेऽर्थे च अनिवेदिते साक्षी क्व कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वद- त्विति मृतान्तरः साक्षी न भवति यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविताः अस्मिन्नर्थे अमी साक्षिण इति । तत्र मृतान्तरोपि साक्षी । यथाह नारदः । “मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते” । तथा । “श्रावितोनातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु” । तानेतानसाक्षिणो दर्शयति । “स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः” । रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः । पतिताप्तार्थ- सम्बन्धिसहायरिपुतस्कराः । साहसी दृष्टदोषश्च निर्द्धूताद्यास्त्वसाक्षिणः” । स्त्री प्रसिद्धा । वालोऽप्राप्तव्यव- [] हारः । वृद्धोऽशीतिकावरः बृद्ध्वग्रहणं वचननिषिद्धा नामन्येषामपि श्रोत्रियादीनामुपलक्षणम् । कितवोऽक्ष- देवी । मत्तः पानादिना, उन्मत्तो ग्रहाविष्टः । अभि- शस्तः, अभियुक्तो ब्रह्महत्यादिना । रङ्गावतारी चारणः पाषण्डिनो निर्ग्रन्थिप्रभृतयः । कूटकृत् कपटलेख्यादि- कारी विकलेन्द्रियः श्रोत्रादिरहितः पतितः ब्रह्म- हादिः । आप्तः सुहृत्, अर्थसम्बन्धी विप्रतिपद्य- मानार्थसम्बन्धी । सहाय एककार्य्यः रिपुः शत्रुः तस्करः स्तेनः साहसी स्वबलावष्टम्भकारी दृष्टदोषो दृष्टवितथ वचनः । निर्धूतो बन्धुभिस्त्यक्तः । आदिशब्दादन्ये- षामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणाम्भेदादसाक्षिणां स्वयनुक्तेर्मृतान्तरस्य च ग्रहणम् । एते स्त्रीबालादयः साक्षिणो न भवन्ति” मिता० । अत्रापवादः “सर्व्वः साक्षी संग्रहणे चौर्य्ये पारुष्यसाहसे” । या० स्मृ० संग्रह- णादौ सर्व्वे वचननिषिद्धाः श्रोत्रियादयः तपःप्रभृति गुणरहिताश्च साक्षिणोभवन्ति। दोषादसाक्षिणो भेदाद- साक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो न भवन्ति सत्याभा- वादिहेतोस्तेषु विद्यमानत्वादिति” मिता० ।
📄 मूल मुद्रित पृष्ठ (0550-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬