🕉️ 23 November 2026, Monday · 09:03:15 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

अस्तिकाय
astikāya
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
अस्तिकाय संज्ञा पुं॰ [सं॰] जैनशास्त्रानुसार वे सिद्ध पदार्थ जो प्रदेशों या स्थानों के अनुसार कहे जाते हैं । विशेष—ये पाँच हैं—(क) जीवास्तिकाय, (ख) पुदगलास्तिकाय, (र) धर्मास्तिकाय, (घ) अधर्मास्तिकाय और (च) आकाशास्तिकाय ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
अस्ति—काय m. an ontological category (of which five are distinguished, viz. जीवास्तिकाय, अजिवास्त्˚, धर्मास्त्˚, अधर्मास्त्˚, पुद्गलास्त्˚), Jain.
📄 मूल मुद्रित पृष्ठ (122,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
अस्तिकाय पु० अस्ति कायः स्वरूपं यस्य । जैनमतसिद्धे विद्यमानतास्वरूपे पदार्थभेदे । अस्तिकायाश्च पञ्चविधाः जीवास्तिकायः पुद्गलास्तिकायः धर्म्मास्तिकायः अधर्म्मास्ति- कायः आकाशास्तिकायश्चेति अर्हच्छब्दे ३८६ पृष्ठे विव- रणम् । शा० भाष्ये तन्ममतमुन्यस्य निराकृतं यथा “सर्व्वेषा- मप्यन्येषामवान्तरप्रभेदान् बहुविधान् स्वसमयपरिकल्पितान् वर्ण्णयन्ति । सर्वत्र चेमं सप्तभङ्गीनयन्यायमवतारयन्ति । स्या- दस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्याद वक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति नास्तिचावक्तव्य- श्चेति । एवमेवैकत्वनित्यत्वादावपीमं सप्तभङ्गीनयुंयोजयन्ति । अत्राचक्ष्महे नायमभ्युपगमोयुक्त इति । कुतः “एकस्मिन्न सम्भवात्” सू० । नह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादि विरुद्धधर्मसमावेशः सम्भवति शीतोष्णवत् । यएते सप्त पदार्था निर्द्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युः । नैव वा तथा स्युः । इतरथा हि तथा वा स्यु र्न तथा वेत्य निर्द्धा- रितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् । ननु अने- कात्मकं वस्त्विति निर्द्धारितरूपमेव ज्ञानमुत्पद्यमानं संशय- ज्ञानवन्नाप्रमाणं सम्भवितुमर्हति । नेति व्रूमः निरङ्कुशं ह्यंनेकान्तं सर्व्ववस्तु प्रतिजानानस्य निर्द्धारणफलस्यापि वस्तुत्वाविशेषात् स्यादस्तिस्यान्नास्तीत्यादिविकल्पोपनि- पातादनिर्द्धारणात्मकतैव स्यात् । एवं निर्द्धारयितुर्निर्द्धा- रणाफलस्य च स्यात् । पक्षेऽस्तिता स्याच्चापक्षे नास्तितेत्येवं सति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृ प्रमितिष्वनिर्द्धारितासूपदेष्टुं शक्नुयात् कथं वा तदभिप्राया- नुसारिणस्तदुपदिष्टेऽर्थेऽनिर्द्धातिरूपे प्रवर्त्तेरन् । ऐकान्ति- फलत्वनिर्द्धारणे हि सति तत्साधनानुष्ठानाय सर्व्वोलोको- ऽनाकुलः प्रवर्त्तते नान्यथा । अतश्चानिर्द्धारितार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात् । तथा पञ्चानाम- स्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमानं स्यादिति तदैकस्मिन् पक्षे । पक्षान्तरे तु न स्यादित्यतोन्यूनसं- ख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात्! नचैषां पदार्थानामव- क्तव्यत्वं सम्भवति अवक्तव्याश्चेन्नोच्येरन् उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् । उच्यमानाश्च तथैवावधार्य्यन्तेनाबधार्य्याश्च इति च तथावदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति [] वा एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्याययितरूपपक्षस्य । स्वर्गा- पवर्गयोश्च पक्षे भावः पक्षेचाभावः तथा पक्षे नित्यता तथा पक्षेचानित्यता इत्यनवधारणायां प्रवृत्त्यनुपपत्तिः । अनादि- सिद्धजीवप्रवृत्तीनाञ्च स्वशास्त्रावधृतभावानामयथावधृत स्वभावत्वप्रसङ्गः । एवं जीवादिषु पदार्थेष्वेकस्मिन् धर्मिणि सत्त्वासत्त्वयोर्विरद्धयोरसम्भवात् सत्त्वे चैकस्मिन् धर्मेऽस- त्त्वस्य धर्म्मान्तरस्यासम्भवादसत्त्वे चैवं सत्त्वस्यासम्भवाद सङ्गतमिदमार्हतं मतम् । एतेनैकानेकनित्यव्यतिरिक्ता- व्यतिरिक्ताद्यनेकान्ताभ्युपगमानिराकृतामन्तव्याः । यत्तु पु- द्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति तत् पूर्व्वेणैवाणुवादनिराकरणेन निराकृतम्भवतीत्यतोन पृ- थङ्निराकरणाय प्रयत्यते” । अस्तिनास्तिकायादयोऽप्यु- न्नेयाः । अणुवादनिराकरणञ्चारम्भवादशब्दे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (0566-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬