अस्रपा स्त्री अस्रं पिवति पा--क्विप् क वा । (जोँक) जलौ- कसि । तस्याः भेदादिकं सुश्रुते दर्शितं यथा “अथ जलायुका वक्ष्यन्ते । जलमासामायुरिति जलायुका जलमासामोक इति जलौकसः । ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः । तत्र सविषाः कृष्णा कर्ब्धुरा अलगर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति । तास्वञ्जनचूण्णवर्ण्णा पृथुशिराः कृष्णा । कूर्म्ममत्स्यवदायता छिन्नोन्नतकुक्षिः कर्व्वुरा । रोमशा महापार्श्वा कृष्णमुख्यलगर्द्दा । इन्द्रायुधवदूर्द्ध्वराजिभि- श्चित्रिता इन्द्रायुधा । ईषदसितपीतिका विचित्रपुष्पाकृति चित्रा सामुद्रिका । गोवृषणवदधोभागे द्विधाभूताकृति- रणुमुखी गोचन्दनेति । ताभिर्दष्टे पुरुषे दंशे श्वयथुरति- मात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्यकर्म्मा दिषूपयोज्यः । इन्द्रायुधादष्टमसाध्यमित्येताः सविषाः सचिकित्सिता व्याख्याताः ॥ अथ निर्विषाः । कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी सावरिका चेति । तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धमुद्ग- वर्ण्णा कपिला, किञ्चिद्रक्ता वृत्तकाया पिङ्गाशुगा च षिङ्गला । यकृद्वर्ण्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्खमुखी । मूषिकाकृति वर्ण्णानिष्टगन्धा च मूषिका । मुद्गवर्ण्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी । स्निग्धा पद्मपत्रवर्ण्णाष्टादशाङ्गुलप्रमाणा सावरिका सा च पश्वर्थे । इत्येता अविषा व्याख्याताः ॥ तासां यवनपाण्ड्यसह्यपीतनादीनि क्षेत्राणि । तेषु महाशरीरा बलवत्यः शीषपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति ॥ तत्र सविषमत्स्यकीटदर्द्दुरमूत्रपुरीष कोथजाताः कलुषेष्वम्भःसु च सविषाः ॥ पद्मोत्पलनलिन- कुमुदसौगन्धिककुवलयपुण्डरीकशैवालकोथजाता विमलेष्व [] म्भःसु च निर्विषाः ॥ भवति चात्र ॥ क्षेत्रेषु विचरन्त्येताः सलिलेषु सुगन्धिषु । न च सङ्कीर्ण्णचारिण्यो न च पङ्के- शयाः सुखाः । तासां प्रग्रहणमार्द्र चर्म्मणान्यैर्व्वा प्रयो- गैर्गृह्णीयात् । अथैता नवे महति घटे सरस्तडागो दकपङ्कमावाप्य निदध्यात् । मक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमौदकांश्च कन्दांश्चूर्ण्णीकृत्य, शय्यार्थं तृणमौदकानि च पत्राणि, द्व्यहात्त्र्यहाच्चान्यज्जलं भक्ष्यं च दद्यात् सप्त रात्रात्सप्तराच्च घटमन्यं संक्रामयेत् । भवति चात्र । स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः । अग्रा- हिण्योऽल्पपायिन्यः सविषाश्चन पूजिताः” । अधिकस- सृग्विमोक्षणशब्दे ५६१ पृष्ठे दृश्यम् ।
📄 मूल मुद्रित पृष्ठ (0572-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।