अहिच्छत्र पु० अहेः फणाकारः छत्रश्छादकः । १ मेषशृङ्गी- वृक्षे, २ नगरीभेदे स्त्री । ३ देशभेदे पु० । स च देशः पार्थेन निर्ज्जित्य द्रोणाय दत्तः । “अहिच्छत्रं च विषयं द्रोणः समभिपद्यत । एवं राजन्नहिच्छत्रा पुरीजनपदायुता युधि निर्ज्जित्य पार्थेन द्रोणाय प्रतिपादिता” भा० आ० प० १३९ अ० । तत्र द्रुपदराज्यं पूर्व्वमासीत् यथोक्तं हरि- वंशे २० अ० “अहिछत्रं स्वकं राज्यं पित्र्यं प्राप महा- द्युतिः । द्रुपदस्य पिता राजन्! ममैवानुमते तदा । ततो- ऽभूद्द्रुपदोराजा द्रोणस्तेन निराकृतः । ततोऽर्ज्जुनेन तरसा निर्ज्जित्य द्रुपदं रणे । अहिच्छत्रं सकाम्पिल्यं द्रोणाया थापवर्ज्जितम् । प्रतिगृह्य ततोद्रोणः उभयं जयतांबरः । काम्पिल्लं द्रुपदायैव प्रायच्छद्विदितं तव” हरि० २० अ० तत्सीमाबन्धश्च भा० आ० प० १३७ अ० उक्तः । “कामन्दीमथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यवात्- सीद्दीनमनाः काम्पिल्लञ्च पुरोत्तमम्” । दक्षिणांश्चापि पञ्चालान् यावच्चर्म्मण्वतीं नदीम् । द्रोणेन चैवं द्रुपदं परिभूयाथ पालिता” । अहिच्छत्रस्यं नामान्तरं प्रत्यग्रयः हेम० । अहिच्छत्रे भवः अण् आहिच्छत्रः । स्त्रियां ङीप् गुरूपोत्तमत्वेऽपि गोत्रार्खभिन्नत्वात् न ष्यङ् आहि- च्छत्री” सि० कौ० ।
📄 मूल मुद्रित पृष्ठ (0584,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।