अहिजित् पु० अहिं सर्पं वृत्तासुरं वा जितवान् जि--क्विप् तुक् च । १ कृष्णे, २ इन्द्रे च । तत्र कृष्णस्य कालि- यदमनात्तथात्वम् तत्कथा हरि० ६९ अ० । “कृष्ण कृष्ण! महावाहो! गोपानां नन्दिवर्द्धन! । दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः । इमे नो बान्धवास्तात! त्वां मत्वा मानुषं विभो! । परिदेवन्ति करुणं सर्वे मानुषबुद्धयः । तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम् । विक्रीड्याऽस्फोटयन् बाहू भित्त्वा तं भोगबन्धनम् । तस्य पद्भ्यां समाक्रम्य भोगराशिं जलोत्थितम् । शिरस्सु कृष्णो जग्राह स्वहस्तेनावनाम्य च । तस्यारुरोह सहसा मध्य मं तन्महच्छिरः । सोऽस्य मूर्द्ध्निस्थितः कृष्णः ननर्त्त रुचि- राङ्गदः । मृद्यमानः स कृष्णेन श्रान्तमूर्द्ध्वा भुजङ्गमः” । इति । इन्द्रस्य वृत्रासुरजयकथा भाग० ६ स्कन्धे ९ अ० “अथेन्द्रो वज्रमृद्यस्य निर्म्मितं विश्वकर्म्मणा । मुनेः [] शक्तिभिरुत्सिक्तं भगवत्तेजसान्वितम्” इत्युपक्रम्य इन्द्रवृत्रा- सुरयुद्धं वर्ण्णयित्वा “भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः उच्चकर्त्त शिरः शक्रोगिरिशृङ्गमिवोजसा” इत्युक्तम् ।
📄 मूल मुद्रित पृष्ठ (0584-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।