आण्डज पु० अण्डात् जायते जन--ड स्वार्थे अण् । १ अण्डजे पक्षिसर्पादौ । २ तच्छरीरे न० “तेषां खल्वेषां भूतानां त्रीण्येव वीजानि भवन्त्याण्डजं जीवजमुद्भि- ज्जम्” इति छा० उ० । “तेषां जीवाविष्टानां ख- ल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्द्देशा- न्नतु तेजः प्रभृतीनाम् । तस्मात्तेषां खल्वेषां भूतानां पशुपक्षिस्थावरादीनां त्रीण्येव नातिरिक्तानि वीजानि कारणानि भवन्ति । कानि तानीत्युच्यन्ते । अण्डजम- ण्डाज्जातम् अण्डजमेवाण्डजं पक्ष्यादि । पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां वीजम् सर्पः सर्पाणां वीजम् । तथाऽन्यदप्यण्डाज्जातं तज्जातीयानां वीजमित्यर्यः ॥ नन्वण्डाज्जातमण्डजमुच्यते ऽतोऽण्डमेवं वीजमिति युक्तं कथमाण्डजं वीजमुच्यते । सत्यसेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्वतन्त्रा श्रुतिर्यत आहाण्डजाद्येव वीजं नाण्डादीति । दृश्यते चाण्डजाद्यभावे तज्जातीयसन्तत्यभावो नाण्डाद्यभावे । अतोऽण्डजादीन्येव वीजान्यण्डजादीनाम्” भा० ।
📄 मूल मुद्रित पृष्ठ (0647,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।