आकाशकक्षा स्त्री ६ त० । ब्रह्माण्डपुटवेष्टने लोकालोकपर्वत- रूपसीमापर्य्यन्तव्यापके सूर्य्यकिरणस ञ्चारावधिभूते वृत्ताकारे गगनस्थे गोलक्षेत्रे । तन्मितिरुक्ता” सि० शि० “कोटिघ्नैर्नख नन्दषट्कनखभूभूभृद्भुजगेन्दुभिर्ज्योतिःशास्त्र- विदोवदन्ति नभसः कक्षामिमां योजनैः १८७१२- ०६९२०००००००० । तद्ब्रह्माण्डकटाहसम्पुटतटे केचि- ज्जगुर्वेष्टनम् केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः । करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम् । दिनकरकरनिकरकरम्बिततमसो नभसः परिधि- रुदितस्तैः ।” तथा च सूर्य्यकिरणप्रचारावधिस्थानस्य नभःकक्षात्वेन कल्पितम् । वस्तुतोऽपरिच्छिन्नत्वादाशस्य ततोऽपि सत्त्वात् न तन्मात्रमानम् । अतएव “ब्रह्माण्डमे- तन्मितमस्तु नो वेति” ब्रह्माण्डस्यानिर्द्धारितप्रमाणकत्वं तत्रोक्तम् । व्याख्यातं च प्र० मि० “एभिस्तुल्यां गणकाः नभसः कक्षामाकाशपरिघिं वदन्ति तत्र कथमनन्तस्याकाश- [] स्येयत्ता वक्तुं शक्यते इत्याशङ्क्य अहर्पतिद्युतिभाजोनभसः परिधेरिदं मानं वदन्ति अतएव पौराणिका- गणकाः ब्रह्माण्डपरिघिं वदन्ति केचिल्लोका- लोकं वदन्ति यतस्तदन्तर्वर्त्तिन एवार्करश्मयः । एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः प्रमाणशून्यत्वात्” । कर- तलकलितसकलब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति न वयम्” । तेन पौराणिकमतमेतत् सूर्य्यकिरणसञ्चार- स्थानपर्य्यन्तत्वोपाधिना तत्कल्पनमिति द्रष्टव्यम् ।
📄 मूल मुद्रित पृष्ठ (0598-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।