आकाशमण्डल न० आकाशोमण्डलमिव । १ नभोमण्डले आकाशस्य निरयवत्वेन अनवच्छिन्नत्वेन च वेष्टनाकार मण्डलाभावेऽपि भूगोलवृत्तोपाधिकृतं तदीयं मण्डलमिव भवति । योहि नभोभागो भूगोलनानावृतः सन् दृष्टिप्रचार पथवर्त्त्यालोकगन् तस्यैव भूगोलोपाधिना गोलाकारत्वं कल्प्यते । एतेनापि प्रमाणेन भूमेर्गोलाकारत्वानुमानम् यदि भूमिर्गोलाकारा न स्यात् कथं तदाऽनन्तानवच्छिन्नस्याका- शस्य गोलाकारत्वमुपलक्ष्येत कस्यचिदुपाधेरेव च स्यभा- वात् तस्य गोलाकारत्वमुपलक्ष्यते इति कल्प्यम् अन्यस्य च परिधेरदर्शनात् परिशेषात् भुमेरेव तथात्वसिद्धिरिति तस्या गोलाकारता तद्वशाच्चाकाशस्य तथात्वकल्पनमिति “आकाश- मण्डलभध्यमध्यास्ते” काद० नभोमण्डलादयोऽप्यत्र “नैत- न्नमीमण्डलमम्बुराशिः” सा० द० तन्त्रोक्ते भूतशुद्धौ चिन्तनीये भ्रूमध्यावधिब्रह्मरन्ध्रान्तस्थिते वृत्ताकारे स्वच्छे २ नभोमण्डले च “वृत्तं दिवस्तत् षड्विन्दुलाञ्छितं मातरिस्वनः” तन्त्र० । पदार्थादर्शे, भूतशुद्धौ वायोराकाशे विलापनमभिधाय “ततोभ्रूमध्यादि ब्रह्मरन्ध्रपर्य्यन्तं स्वच्छं वर्त्तुलमाकाशमण्डलम्” इत्युक्तम् । तदेव मण्डलं विद्वेषे चिन्तनीयम् यथोक्तं “जलस्य मण्डलं प्रोक्त” मित्युपक्रम्य “वृत्तं दिवस्तद्विद्वेषे” मन्त्रमहो० ।
📄 मूल मुद्रित पृष्ठ (0599,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।