आग्रहायण पु० अग्रहायण्या मृगशीर्षनक्षत्रेण युक्ता पौर्ण्ण- मासी आग्रहायणी अस्त्यत्र मासे ज्योत्स्ना० अण् । १ चान्द्रमार्गशीर्षे मासि अग्रहायण्या युक्ता पौर्णमासी अण् । [] २ चान्द्रमार्गशीर्षमासपोर्ण्णमास्यां स्त्री । “आग्रहायण्या ऊर्द्ध्वं तिसृष्वेवाष्टकासु” स्मृतिः । “कार्त्तिक्या आग्रहायणी मासे” सि० कौ० । यथा च मृगशीर्षनक्षत्रसम्बन्धात् मासस्य मार्गशीर्षत्वं तथोक्तम् सू० सि० “नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्व्वान्तयोगतः” इति “पूर्णमास्यां मृग- शीर्षनक्षत्रयोगात् मार्गशीर्षश्चान्द्रमासः मृगशीर्ष एव अग्र- हायणीनामा पौर्णमास्यां तत्सम्बन्धयोग्यत्वमेव तदर्थः अत एव “कार्त्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम् । अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू० सि० तेन कृत्तिकारोहिणीभ्यां कार्त्तिकी मृगार्द्राभ्यां मार्गशीर्ष इत्यादि क्रमेण नक्षत्रद्वयसम्बन्धस्तत्रोक्तः ।
📄 मूल मुद्रित पृष्ठ (0623-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।