आचाम पु० आ + चम--भावे घञ् वा वृद्धिः । आचमने कर्म्मणि घञ् । २ भक्ष्ये ३ भक्तनिस्रावे मण्डे(माड) “पि- ण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासः स्यात् कृच्छ्रः सौम्योऽयमुच्यते” या० । पिण्याकः निस्मृततैलस्तिलः अदननिस्रावोदस्विदुदकसक्तूनां पंञ्चा- नामैकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपसेदिति” मिता० । “पिण्याकः खलिः आचामः भक्तभण्डः” प्रा० वि० । “आचाममथ पिण्याकं तक्रञ्चोदकसक्तुकान् । त्र्यहं त्र्यहं प्रयुञ्जानोवायुभक्षस्त्र्यहद्वयम् । एकविंशतिरात्रैस्तु तुला पुरुष उच्यते” यमः । ४ सौत्रामणीयागाङ्गे सुरासाधने भक्तमण्डे च “कृत्वा तांश्च ब्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्ण्णैः संसृज्य निदधाति तन्मासरम्” कात्या० १९, १, २० । “दक्षिणेन द्वारेण प्रवेश्याग्न्यागारं नग्नहु चूर्ण्णानि कृत्वा । लग्नहुः किण्व उच्यते । तांश्च शष्पादीं श्चूर्ण्णयित्वा व्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्णैः संसृज्य निदधाति तन्मासरमुच्यते । ब्रीहियवा- भ्याञ्च सुरा निष्पाद्यते सा च यागसाधनम् तेन सा तद्धर्स्मैरभिसंबध्यते । अतस्तयोश्चतुर्मुष्टिग्रहणपूर्व्वकं पृथगोदनौ निष्पाद्येते । नग्नहुब्दार्थ माह । “सज्जत्वक्- त्रिफला चैव शुण्ठी चैव पुनर्नवा । चतुर्ज्जातकसंयुक्ता पिप्पली गजपिप्पली । वंशोऽवका वृहच्छत्रा चित्रकं चेन्द्रवारुणी । अश्वगन्धां स मुत्पाद्य मूलान्येतानि निर्द्दिशेत् । धान्यकं च यवानीं च जीरकं कृष्णजीरकम् । द्वे हरिद्रे वचा चैव विरूढा ब्रीहयो यवाः” । क्रयणानन्तरं शप्पादोन्यादाय दक्षिणेन हृत्वाग्न्यागारं प्रवेश्य लग्नहुचूर्ण्णानि कृत्वा सज्जत्वगाद्यौषधानि तूष्णीं पिष्ट्वा तान् शष्पतोक्मलाजान् चूर्ण्णीकृत्य दर्शपार्ण्णमासधर्मेणं पात्रासादनादि । श्यामाकचतुर्मुष्टिकग्रहणपूर्व्वकंफलीकर- णान्तं समन्त्रकं कृत्वा वहुतरोदके पृथक् पृथक् चरू पक्त्वा शृतालम्भनानान्तं ब्रीहिश्यामाकौदनयोः पृथगा- चामौ परिषिच्य पृथग्भिन्नयोः पात्रयोश्चर्व्वोर्मध्यादति रिक्तमुष्णोदकम् (मण्डम्) अवस्राव्य तदुदकं (मण्डम्) लग्नहुप्रभृतिभिश्चतुभिश्चूर्ण्णैः संसृज्य निदधाति स्थाप- यति तन्मासरं तस्य चूर्ण्णसंसृष्टस्याचामस्य मासरमिति संज्ञा” “एवामाचामयोश्चूर्ण्णसंसर्गानन्तरमिति” च कर्कः । सौत्रामणीशब्दे तदीयसुरासाधनसंस्कारप्रकारोवक्ष्यते
📄 मूल मुद्रित पृष्ठ (0630,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।