आज्ञान न० आ + ज्ञा--ल्युट् । आज्ञाकरणे मानसवृत्ति- भेदे । मानसवृत्तयश्च यथा । “संज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामोवशः इति सर्व्वाण्येवैतानि प्रज्ञानस्य नामधेयानि” ऐ० उ० । “तदन्तःकरणोपाधि- कस्योपलब्धुः प्रज्ञानरूपस्य ब्रह्मण उपलब्ध्यर्था अ- न्तःकरणवृत्तयो बाह्यान्तर्वर्त्तिविषयविषयास्ता इमा इत्यु- च्यन्ते । संज्ञानं संज्ञप्तिश्चेतनभावः । आज्ञानम् आज्ञ- प्तिरीश्वरभावः । विज्ञानं कलादिपरिज्ञानम् । प्रज्ञानं प्रज्ञप्तिः प्रज्ञता । मेधा ग्रन्थधारणे सामर्थ्यम् । दृष्टि- रिन्द्रियद्वारा सर्वविषयोपलब्धिः । धृतिर्धारणमवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति । धृत्या शरीरमुद्वह- न्तीति हि वदन्ति । मतिर्मननम् । मनीषा तत्र स्वा- तन्त्र्यम् । जूतिश्चेतसोरुजादिदुःखिभावः । स्मृतिः स्मरणम् । संकल्पः शुक्लकृष्णादिभावेन संकल्पनम् रूपादीनाम् । क्रतुरध्यवसायः । असुः प्राणनादिजीव- नक्रियानिमित्ता वृत्तिः । कामोऽसन्निहितविषयाकाङ्क्षा । वशः स्त्रीव्यतिकराद्यभिलाष इत्येवमाद्याः अन्तःकरण- वृत्तयः” शङ्करभाष्यम् ।
📄 मूल मुद्रित पृष्ठ (0643,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।