आतञ्चन न० आ + तन्च--ल्युट् । १ वेगे, २ प्रापणे, ३ आप्या- यने दुग्धादौ दध्यादिभावापादनाय ४ अम्लद्रव्यप्रक्षेपे, (दम्बल देओया) ५ निक्षेपे, ६ उपद्रवे ७ द्रवद्रव्यप्रक्षेपेण कठिनद्रव्यस्य चूर्णने गलितस्वर्ण्णादेर्द्रव्यान्तरयोगेण ८ जारणे च । करणे ल्युट् । ९ दधिसाधन द्रव्ये (दम्बल) । गोभ्योहिदशविधाः दु- ग्धादय उत्पद्यन्ते यथोक्तं श्रुतौ “प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनम्” शत० ब्रा० । तत्र प्रतिधुक् सद्योदुग्धम् १ शृतं पक्वं पयः २ । शरः पक्कक्षीर- स्योपरि सारभूतम् ३ । घनीभूतं वस्तु दधि ४ । दधिभवं सारभूतमुदकं मस्तु ५, । नवनीतघृते ६, ७, प्रसिद्धे आत- ञ्चनं दधिभावकारणम् ८ । आमिक्षा तप्ते पयसि दध्यानयने सति यत् घनीभूतं वस्तु जायते सामिक्षा९ । द्रवात्मकं वाजि- नम् १०” मा० “यत्पूर्व्वेद्युर्दुग्धं हविरातञ्चनं तत्कुर्बोत कात्या० ।
📄 मूल मुद्रित पृष्ठ (0647,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।